भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.62

2.62.1

रामायण, अयोध्याकाण्ड, 62
तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह ।
मित्रामात्यगणान् सर्वान् ब्राह्मणांस् तान् इदं वचः

2.62.2

यद् असौ मातुलकुले पुरे राजगृहे सुखी ।
भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः

2.62.3

तच् छीघ्रं जवना दूता गच्छन्तु त्वरितैर् हयैः ।
आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्

2.62.4

गच्छन्त्व् इति ततः सर्वे वसिष्ठं वाक्यम् अब्रुवन् ।
तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत्

2.62.5

एहि सिद्धार्थ विजय जयन्ताशोकनन्दन ।
श्रूयताम् इतिकर्तव्यं सर्वान् एव ब्रवीमि वः

2.62.6

पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर् हयैः ।
त्यक्तशोकैर् इदं वाच्यः शासनाद् भरतो मम

2.62.7

पुरोहितस् त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।
त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया

2.62.8

मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् ।
भवन्तः शंसिषुर् गत्वा राघवाणाम् इमं क्षयम्

2.62.10

कौशेयानि च वस्त्राणि भूषणानि वराणि च ।
क्षिप्रम् आदाय राज्ञश् च भरतस्य च गच्छत ।
वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः ॥ रम्स्_2,62.9* ॥
ते हस्तिनपुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः ।
पाञ्चालदेशम् आसाद्य मध्येन कुरुजाङ्गलम्

2.62.11

ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् ।
उपातिजग्मुर् वेगेन शरदण्डां जनाकुलाम्

2.62.12

निकूलवृक्षम् आसाद्य दिव्यं सत्योपयाचनम् ।
अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम्

2.62.14

अभिकालं ततः प्राप्य तेजोऽभिभवनाच् च्युताः ।
ययुर् मध्येन वाह्लीकान् सुदामानं च पर्वतम् ।
विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् ॥ रम्स्_2,62.13* ॥
ते श्रान्तवाहना दूता विकृष्टेन सता पथा ।
गिरिव्रजं पुरवरं शीघ्रम् आसेदुर् अञ्जसा

2.62.15

भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश् च वंशस्य परिग्रहार्थम् ।
अहेडमानास् त्वरया स्म दूता रात्र्यां तु ते तत् पुरम् एव याताः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc