भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.60

2.60.1

रामायण, अयोध्याकाण्ड, 60
तम् अग्निम् इव संशान्तम् अम्बुहीनम् इवार्णवम् ।
हतप्रभम् इवादित्यं स्वर्गस्थं प्रेक्ष्य भूमिपम्

2.60.2

कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता ।
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत

2.60.3

सकामा भव कैकेयि भुङ्क्ष्व राज्यम् अकण्टकम् ।
त्यक्त्वा राजानम् एकाग्रा नृशंसे दुष्टचारिणि

2.60.4

विहाय मां गतो रामो भर्ता च स्वर्गतो मम ।
विपथे सार्थहीनेव नाहं जीवितुम् उत्सहे

2.60.5

भर्तारं तं परित्यज्य का स्त्री दैवतम् आत्मनः ।
इच्छेज् जीवितुम् अन्यत्र कैकेय्यास् त्यक्तधर्मणः

2.60.6

न लुब्धो बुध्यते दोषान् किं पाकम् इव भक्षयन् ।
कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम्

2.60.7

अनियोगे नियुक्तेन राज्ञा रामं विवासितम् ।
सभार्यं जनकः श्रुत्वा परितप्स्यत्य् अहं यथा

2.60.9

रामः कमलपत्त्राक्षो जीवनाशम् इतो गतः ।
विदेहराजस्य सुता तथा सीता तपस्विनी ।
दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥ रम्स्_2,60.8* ॥
नदतां भीमघोषाणां निशासु मृगपक्षिणाम् ।
निशम्य नूनं संत्रस्ता राघवं संश्रयिष्यति

2.60.10

वृद्धश् चैवाल्पपुत्रश् च वैदेहीम् अनुचिन्तयन् ।
सो ऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम्

2.60.11

तां ततः सम्परिष्वज्य विलपन्तीं तपस्विनीम् ।
व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः

2.60.12

तैलद्रोण्याम् अथामात्याः संवेश्य जगतीपतिम् ।
राज्ञः सर्वाण्य् अथादिष्टाश् चक्रुः कर्माण्य् अनन्तरम्

2.60.13

न तु संकालनं राज्ञो विना पुत्रेण मन्त्रिणः ।
सर्वज्ञाः कर्तुम् ईषुस् ते ततो रक्षन्ति भूमिपम्

2.60.14

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् ।
हा मृतो ऽयम् इति ज्ञात्वा स्त्रियस् ताः पर्यदेवयन्

2.60.15

बाहून् उद्यम्य कृपणा नेत्रप्रस्रवणैर् मुखैः ।
रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन्

2.60.16

निशा नक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता ।
पुरी नाराजतायोध्या हीना राज्ञा महात्मना

2.60.17

बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना ।
शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम्

2.60.18

गतप्रभा द्यौर् इव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी ।
पुरी बभासे रहिता महात्मना न चास्रकण्ठाकुलमार्गचत्वरा

2.60.19

नराश् च नार्यश् च समेत्य संघशो विगर्हमाणा भरतस्य मातरम् ।
तदा नगर्यां नरदेवसंक्षये बभूवुर् आर्ता न च शर्म लेभिरे

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc