रामायण (दक्षिणी पाठ) · अध्याय 2.59
रामायण, अयोध्याकाण्ड, 59
अथ रात्र्यां व्यतीतायां प्रातर् एवापरे ऽहनि ।
बन्दिनः पर्युपातिष्ठंस् तत् पार्थिवनिवेशनम्
ततः शुचिसमाचाराः पर्युपस्थानकोविदाः ।
स्त्रीवर्षवरभूयिष्ठा उपतस्थुर् यथापुरम्
हरिचन्दनसंपृक्तम् उदकं काञ्चनैर् घटैः ।
आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि
मङ्गलालम्भनीयानि प्राशनीयान् उपस्करान् ।
उपनिन्युस् तथाप्य् अन्याः कुमारीबहुलाः स्त्रियः
अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः ।
ताः स्त्रियस् तु समागम्य भर्तारं प्रत्यबोधयन्
ता वेपथुपरीताश् च राज्ञः प्राणेषु शङ्किताः ।
प्रतिस्रोतस् तृणाग्राणां सदृशं संचकम्पिरे
अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् ।
यत् तद् आशङ्कितं पापं तस्य जज्ञे विनिश्चयः
ततः प्रचुक्रुशुर् दीनाः सस्वरं ता वराङ्गनाः ।
करेणव इवारण्ये स्थानप्रच्युतयूथपाः
तासाम् आक्रन्दशब्देन सहसोद्गतचेतने ।
कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ।
हा नाथेति परिक्रुश्य पेततुर् धरणीतले
सा कोसलेन्द्रदुहिता वेष्टमाना महीतले ।
न बभ्राज रजोध्वस्ता तारेव गगनच्युता
तत् समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम् ।
सर्वतस् तुमुलाक्रन्दं परितापार्तबान्धवम्
सद्यो निपतितानन्दं दीनविक्लवदर्शनम् ।
बभूव नरदेवस्य सद्म दिष्टान्तम् ईयुषः
अतीतम् आज्ञाय तु पार्थिवर्षभं यशस्विनं संपरिवार्य पत्नयः ।
भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्न् अनाथवत्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0