भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.58

2.58.1

रामायण, अयोध्याकाण्ड, 58
तद् अज्ञानान् महत् पापं कृत्वा संकुलितेन्द्रियः ।
एकस् त्व् अचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत्

2.58.2

ततस् तं घटम् आदाय पूर्णं परमवारिणा ।
आश्रमं तम् अहं प्राप्य यथाख्यातपथं गतः

2.58.3

तत्राहं दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।
अपश्यं तस्य पितरौ लूनपक्षाव् इव द्विजौ

2.58.4

तन्निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।
ताम् आशां मत्कृते हीनाव् उदासीनाव् अनाथवत्

2.58.5

पदशब्दं तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।
किं चिरायसि मे पुत्र पानीयं क्षिप्रम् आनय

2.58.6

यन्निमित्तम् इदं तात सलिले क्रीडितं त्वया ।
उत्कण्ठिता ते मातेयं प्रविश क्षिप्रम् आश्रमम्

2.58.7

यद् व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया ।
न तन् मनसि कर्तव्यं त्वया तात तपस्विना

2.58.8

त्वं गतिस् त्व् अगतीनां च चक्षुस् त्वं हीनचक्षुषाम् ।
समासक्तास् त्वयि प्राणाः किंचिन् नौ नाभिभाषसे

2.58.9

मुनिम् अव्यक्तया वाचा तम् अहं सज्जमानया ।
हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम्

2.58.10

मनसः कर्म चेष्टाभिर् अभिसंस्तभ्य वाग्बलम् ।
आचचक्षे त्व् अहं तस्मै पुत्रव्यसनजं भयम्

2.58.11

क्षत्रियो ऽहं दशरथो नाहं पुत्रो महात्मनः ।
सज्जनावमतं दुःखम् इदं प्राप्तं स्वकर्मजम्

2.58.12

भगवंश् चापहस्तो ऽहं सरयूतीरम् आगतः ।
जिघांसुः श्वापदं किंचिन् निपाने वागतं गजम्

2.58.13

तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः ।
द्विपो ऽयम् इति मत्वा हि बाणेनाभिहतो मया

2.58.14

गत्वा नद्यास् ततस् तीरम् अपश्यम् इषुणा हृदि ।
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्

2.58.15

भगवञ् शब्दम् आलक्ष्य मया गजजिघांसुना ।
विसृष्टो ऽम्भसि नाराचस् तेन ते निहतः सुतः

2.58.16

स चोद्धृतेन बाणेन तत्रैव स्वर्गम् आस्थितः ।
भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च

2.58.17

अज्ञानाद् भवतः पुत्रः सहसाभिहतो मया ।
शेषम् एवंगते यत् स्यात् तत् प्रसीदतु मे मुनिः

2.58.18

स तच् छ्रुत्वा वचः क्रूरं निःश्वसञ् शोककर्शितः ।
माम् उवाच महातेजाः कृताञ्जलिम् उपस्थितम्

2.58.19

यद्य् एतद् अशुभं कर्म न स्म मे कथयेः स्वयम् ।
फलेन् मूर्धा स्म ते राजन् सद्यः शतसहस्रधा

2.58.20

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।
ज्ञानपूर्वं कृतः स्थानाच् च्यावयेद् अपि वज्रिणम्

2.58.21

अज्ञानाद्धि कृतं यस्माद् इदं तेनैव जीवसि ।
अपि ह्य् अद्य कुलं न स्याद् राघवाणां कुतो भवान्

2.58.22

नय नौ नृप तं देशम् इति मां चाभ्यभाषत ।
अद्य तं द्रष्टुम् इच्छावः पुत्रं पश्चिमदर्शनम्

2.58.23

रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससम् ।
शयानं भुवि निःसंज्ञं धर्मराजवशं गतम्

2.58.24

अथाहम् एकस् तं देशं नीत्वा तौ भृशदुःखितौ ।
अस्पर्शयम् अहं पुत्रं तं मुनिं सह भार्यया

2.58.25

तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।
निपेततुः शरीरे ऽस्य पिता चास्येदम् अब्रवीत्

2.58.26

न न्व् अहं ते प्रियः पुत्र मातरं पश्य धार्मिक ।
किं नु नालिङ्गसे पुत्र सुकुमार वचो वद

2.58.27

कस्य वापररात्रे ऽहं श्रोष्यामि हृदयंगमम् ।
अधीयानस्य मधुरं शास्त्रं वान्यद् विशेषतः

2.58.28

को मां संध्याम् उपास्यैव स्नात्वा हुतहुताशनः ।
श्लाघयिष्यत्य् उपासीनः पुत्रशोकभयार्दितम्

2.58.29

कन्दमूलफलं हृत्वा को मां प्रियम् इवातिथिम् ।
भोजयिष्यत्य् अकर्मण्यम् अप्रग्रहम् अनायकम्

2.58.30

इमाम् अन्धां च वृद्धां च मातरं ते तपस्विनीम् ।
कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम्

2.58.31

तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति ।
श्वो मया सह गन्तासि जनन्या च समेधितः

2.58.32

उभाव् अपि च शोकार्ताव् अनाथौ कृपणौ वने ।
क्षिप्रम् एव गमिष्यावस् त्वया हीनौ यमक्षयम्

2.58.33

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् ।
क्षमतां धर्मराजो मे बिभृयात् पितराव् अयम्

2.58.34

अपापो ऽसि यथा पुत्र निहतः पापकर्मणा ।
तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम्

2.58.35

यान्ति शूरा गतिं यां च संग्रामेष्व् अनिवर्तिनः ।
हतास् त्व् अभिमुखाः पुत्र गतिं तां परमां व्रज

2.58.36

यां गतिं सगरः शैब्यो दिलीपो जनमेजयः ।
नहुषो धुन्धुमारश् च प्राप्तास् तां गच्छ पुत्रक

2.58.37

या गतिः सर्वसाधूनां स्वाध्यायात् तपसा च या ।
भूमिदस्याहिताग्नेश् च एकपत्नीव्रतस्य च

2.58.39

गोसहस्रप्रदात्ःणां या या गुरुभृताम् अपि ।
देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ।
न हि त्व् अस्मिन् कुले जातो गच्छत्य् अकुशलां गतिम् ॥ रम्स्_2,58.38* ॥
एवं स कृपणं तत्र पर्यदेवयतासकृत् ।
ततो ऽस्मै कर्तुम् उदकं प्रवृत्तः सह भार्यया

2.58.40

स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः ।
आश्वास्य च मुहूर्तं तु पितरौ वाक्यम् अब्रवीत्

2.58.41

स्थानम् अस्मि महत् प्राप्तो भवतोः परिचारणात् ।
भवन्ताव् अपि च क्षिप्रं मम मूलम् उपैष्यतः

2.58.42

एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।
आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः

2.58.43

स कृत्वा तूदकं तूर्णं तापसः सह भार्यया ।
माम् उवाच महातेजाः कृताञ्जलिम् उपस्थितम्

2.58.44

अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा ।
यच् छरेणैकपुत्रं मां त्वम् अकार्षीर् अपुत्रकम्

2.58.45

त्वया तु यद् अविज्ञानान् निहतो मे सुतः शुचिः ।
तेन त्वाम् अभिशप्स्यामि सुदुःखम् अतिदारुणम्

2.58.46

पुत्रव्यसनजं दुःखं यद् एतन् मम साम्प्रतम् ।
एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि

2.58.47

तस्मान् माम् आगतं भद्रे तस्योदारस्य तद्वचः ।
यद् अहं पुत्रशोकेन संत्यक्ष्याम्य् अद्य जीवितम्

2.58.48

यदि मां संस्पृशेद् रामः सकृद् अद्यालभेत वा ।
न तन् मे सदृशं देवि यन् मया राघवे कृतम्

2.58.49

चक्षुषा त्वां न पश्यामि स्मृतिर् मम विलुप्यते ।
दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम्

2.58.50

अतस् तु किं दुःखतरं यद् अहं जीवितक्षये ।
न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम्

2.58.51

न ते मनुष्या देवास् ते ये चारुशुभकुण्डलम् ।
मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः

2.58.52

पद्मपत्त्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् ।
धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम्

2.58.53

सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च ।
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम्

2.58.54

निवृत्तवनवासं तम् अयोध्यां पुनर् आगतम् ।
द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा

2.58.55

अयम् आत्मभवः शोको माम् अनाथम् अचेतनम् ।
संसादयति वेगेन यथा कूलं नदीरयः

2.58.56

हा राघव महाबाहो हा ममायासनाशन ।
राजा दशरथः शोचञ् जीवितान्तम् उपागमत्

2.58.57

तथा तु दीनं कथयन् नराधिपः प्रियस्य पुत्रस्य विवासनातुरः ।
गते ऽर्धरात्रे भृशदुःखपीडितस् तदा जहौ प्राणम् उदारदर्शनः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc