भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.57

2.57.1

रामायण, अयोध्याकाण्ड, 57
प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः ।
अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत

2.57.2

रामलक्ष्मणयोश् चैव विवासाद् वासवोपमम् ।
आविवेशोपसर्गस् तं तमः सूर्यम् इवासुरम्

2.57.4

स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् ।
अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम् ।
कौसल्यां पुत्रशोकार्ताम् इदं वचनम् अब्रवीत् ॥ रम्स्_2,57.3* ॥
यद् आचरति कल्याणि शुभं वा यदि वाशुभम् ।
तद् एव लभते भद्रे कर्ता कर्मजम् आत्मनः

2.57.5

गुरुलाघवम् अर्थानाम् आरम्भे कर्मणां फलम् ।
दोषं वा यो न जानाति स बाल इति होच्यते

2.57.6

कश्चिद् आम्रवणं छित्त्वा पलाशांश् च निषिञ्चति ।
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे

2.57.7

सो ऽहम् आम्रवणं छित्त्वा पलाशांश् च न्यषेचयम् ।
रामं फलागमे त्यक्त्वा पश्चाच् छोचामि दुर्मतिः

2.57.9

लब्धशब्देन कौसल्ये कुमारेण धनुष्मता ।
कुमारः शब्दवेधीति मया पापम् इदं कृतम् ।
तद् इदं मे ऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् ॥ रम्स्_2,57.8* ॥
सम्मोहाद् इह बालेन यथा स्याद् भक्षितं विषम् ।
एवं ममाप्य् अविज्ञातं शब्दवेध्यमयं फलम्

2.57.10

देव्य् अनूढा त्वम् अभवो युवराजो भवाम्य् अहम् ।
ततः प्रावृड् अनुप्राप्ता मदकामविवर्धिनी

2.57.11

उपास्य हि रसान् भौमांस् तप्त्वा च जगद् अंशुभिः ।
परेताचरितां भीमां रविर् आविशते दिशम्

2.57.12

उष्णम् अन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः ।
ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः

2.57.13

पतितेनाम्भसा छन्नः पतमानेन चासकृत् ।
आबभौ मत्तसारङ्गस् तोयराशिर् इवाचलः

2.57.14

तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।
व्यायामकृतसंकल्पः सरयूम् अन्वगां नदीम्

2.57.15

निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् ।
अन्यं वा श्वापदं कंचिज् जिघांसुर् अजितेन्द्रियः

2.57.16

अथान्धकारे त्व् अश्रौषं जले कुम्भस्य पूर्यतः ।
अचक्षुर् विषये घोषं वारणस्येव नर्दतः

2.57.17

ततो ऽहं शरम् उद्धृत्य दीप्तम् आशीविषोपमम् ।
अमुञ्चं निशितं बाणम् अहम् आशीविषोपमम्

2.57.19

तत्र वाग् उषसि व्यक्ता प्रादुरासीद् वनौकसः ।
हा हेति पततस् तोये वाग् अभूत् तत्र मानुषी ।
कथम् अस्मद्विधे शस्त्रं निपतेत् तु तपस्विनि ॥ रम्स्_2,57.18* ॥
प्रविविक्तां नदीं रात्राव् उदाहारो ऽहम् आगतः ।
इषुणाभिहतः केन कस्य वा किं कृतं मया

2.57.20

ऋषेर् हि न्यस्तदण्डस्य वने वन्येन जीवतः ।
कथं नु शस्त्रेण वधो मद्विधस्य विधीयते

2.57.21

जटाभारधरस्यैव वल्कलाजिनवाससः ।
को वधेन ममार्थी स्यात् किं वास्यापकृतं मया

2.57.22

एवं निष्फलम् आरब्धं केवलानर्थसंहितम् ।
न कश्चित् साधु मन्येत यथैव गुरुतल्पगम्

2.57.23

नेमं तथानुशोचामि जीवितक्षयम् आत्मनः ।
मातरं पितरं चोभाव् अनुशोचामि मद्विधे

2.57.24

तद् एतन् मिथुनं वृद्धं चिरकालभृतं मया ।
मयि पञ्चत्वम् आपन्ने कां वृत्तिं वर्तयिष्यति

2.57.25

वृद्धौ च मातापितराव् अहं चैकेषुणा हतः ।
केन स्म निहताः सर्वे सुबालेनाकृतात्मना

2.57.26

तां गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः ।
कराभ्यां सशरं चापं व्यथितस्यापतद् भुवि

2.57.27

तं देशम् अहम् आगम्य दीनसत्त्वः सुदुर्मनाः ।
अपश्यम् इषुणा तीरे सरय्वास् तापसं हतम्

2.57.28

स माम् उद्वीक्ष्य नेत्राभ्यां त्रस्तम् अस्वस्थचेतसम् ।
इत्य् उवाच वचः क्रूरं दिधक्षन्न् इव तेजसा

2.57.29

किं तवापकृतं राजन् वने निवसता मया ।
जिहीर्षुर् अम्भो गुर्वर्थं यद् अहं ताडितस् त्वया

2.57.30

एकेन खलु बाणेन मर्मण्य् अभिहते मयि ।
द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे

2.57.31

तौ नूनं दुर्बलाव् अन्धौ मत्प्रतीक्षौ पिपासितौ ।
चिरम् आशाकृतां तृष्णां कष्टां संधारयिष्यतः

2.57.32

न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा ।
पिता यन् मां न जानाति शयानं पतितं भुवि

2.57.33

जानन्न् अपि च किं कुर्याद् अशक्तिर् अपरिक्रमः ।
भिद्यमानम् इवाशक्तस् त्रातुम् अन्यो नगो नगम्

2.57.34

पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।
न त्वाम् अनुदहेत् क्रुद्धो वनं वह्निर् इवैधितः

2.57.35

इयम् एकपदी राजन् यतो मे पितुर् आश्रमः ।
तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत्

2.57.36

विशल्यं कुरु मां राजन् मर्म मे निशितः शरः ।
रुणद्धि मृदु सोत्सेधं तीरम् अम्बुरयो यथा

2.57.37

न द्विजातिर् अहं राजन् मा भूत् ते मनसो व्यथा ।
शूद्रायाम् अस्मि वैश्येन जातो जनपदाधिप

2.57.38

इतीव वदतः कृच्छ्राद् बाणाभिहतमर्मणः ।
तस्य त्व् आनम्यमानस्य तं बाणम् अहम् उद्धरम्

2.57.39

जलार्द्रगात्रं तु विलप्य कृच्छ्रान् मर्मव्रणं संततम् उच्छ्वसन्तम् ।
ततः सरय्वां तम् अहं शयानं समीक्ष्य भद्रे सुभृशं विषण्णः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc