रामायण (दक्षिणी पाठ) · अध्याय 2.56
रामायण, अयोध्याकाण्ड, 56
एवं तु क्रुद्धया राजा राममात्रा सशोकया ।
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।
यद् अनेन कृतं पूर्वम् अज्ञानाच् छब्दवेधिना
अमनास् तेन शोकेन रामशोकेन च प्रभुः ।
दह्यमानस् तु शोकाभ्यां कौसल्याम् आह भूपतिः
प्रसादये त्वां कौसल्ये रचितो ऽयं मयाञ्जलिः ।
वत्सला चानृशंसा च त्वं हि नित्यं परेष्व् अपि
भर्ता तु खलु नारीणां गुणवान् निर्गुणो ऽपि वा ।
धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा ।
नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम्
तद् वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद् बाष्पं प्रणालीव नवोदकम्
स मूर्ध्नि बद्ध्वा रुदती राज्ञः पद्मम् इवाञ्जलिम् ।
सम्भ्रमाद् अब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः
प्रसीद शिरसा याचे भूमौ निपतितास्मि ते ।
याचितास्मि हता देव हन्तव्याहं न हि त्वया
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
उभयोर् लोकयोर् वीर पत्या या संप्रसाद्यते
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् ।
पुत्रशोकार्तया तत् तु मया किम् अपि भाषितम्
शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः
शयम् आपतितः सोढुं प्रहरो रिपुहस्ततः ।
सोढुम् आपतितः शोकः सुसूक्ष्मो ऽपि न शक्यते
वनवासाय रामस्य पञ्चरात्रो ऽद्य गण्यते ।
यः शोकहतहर्षायाः पञ्चवर्षोपमो मम
तं हि चिन्तयमानायाः शोको ऽयं हृदि वर्धते ।
अदीनाम् इव वेगेन समुद्रसलिलं महत्
एवं हि कथयन्त्यास् तु कौसल्यायाः शुभं वचः ।
मन्दरश्मिर् अभूत् सुर्यो रजनी चाभ्यवर्तत
अथ प्रह्लादितो वाक्यैर् देव्या कौसल्यया नृपः ।
शोकेन च समाक्रान्तो निद्राया वशम् एयिवान्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0