रामायण (दक्षिणी पाठ) · अध्याय 2.55
रामायण, अयोध्याकाण्ड, 55
वनं गते धर्मपरे रामे रमयतां वरे ।
कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत्
यद्यपि त्रिषु लोकेषु प्रथितं ते महद् यशः ।
सानुक्रोशो वदान्यश् च प्रियवादी च राघवः
कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया ।
दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः
सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता ।
कथम् उष्णं च शीतं च मैथिली प्रसहिष्यते
भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् ।
वन्यं नैवारम् आहारं कथं सीतोपभोक्ष्यते
गीतवादित्रनिर्घोषं श्रुत्वा शुभम् अनिन्दिता ।
कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्य् अशोभनम्
महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः ।
भुजं परिघसंकाशम् उपधाय महाबलः
पद्मवर्णं सुकेशान्तं पद्मनिःश्वासम् उत्तमम् ।
कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्
वज्रसारमयं नूनं हृदयं मे न संशयः ।
अपश्यन्त्या न तं यद् वै फलतीदं सहस्रधा
यदि पञ्चदशे वर्षे राघवः पुनर् एष्यति ।
जह्याद् राज्यं च कोशं च भरतेनोपभोक्ष्यते
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते ।
भ्राता ज्येष्ठो वरिष्ठश् च किमर्थं नावमंस्यते
न परेणाहृतं भक्ष्यं व्याघ्रः खादितुम् इच्छति ।
एवम् एव नरव्याघ्रः परलीढं न मंस्यते
हविर् आज्यं पुरोडाशाः कुशा यूपाश् च खादिराः ।
नैतानि यातयामानि कुर्वन्ति पुनर् अध्वरे
तथा ह्य् आत्तम् इदं राज्यं हृतसारां सुराम् इव ।
नाभिमन्तुम् अलं रामो नष्टसोमम् इवाध्वरम्
नैवंविधम् असत्कारं राघवो मर्षयिष्यति ।
बलवान् इव शार्दूलो वालधेर् अभिमर्शनम्
स तादृशः सिंहबलो वृषभाक्षो नरर्षभः ।
स्वयम् एव हतः पित्रा जलजेनात्मजो यथा
द्विजातिधर्मः शास्त्रदृष्टः सनातनः ।
यदि ते धर्मनिरते त्वया पुत्रे विवासिते
गतिर् एका पतिर् नार्या द्वितीया गतिर् आत्मजः ।
तृतीया ज्ञातयो राजंश् चतुर्थी नेह विद्यते
तत्र त्वं चैव मे नास्ति रामश् च वनम् आश्रितः ।
न वनं गन्तुम् इच्छामि सर्वथा हि हता त्वया
हतं त्वया राज्यम् इदं सराष्ट्रं हतस् तथात्मा सह मन्त्रिभिश् च ।
हता सपुत्रास्मि हताश् च पौराः सुतश् च भार्या च तव प्रहृष्टौ
इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः ।
ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस् तदास्मरत्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0