रामायण (दक्षिणी पाठ) · अध्याय 2.54
रामायण, अयोध्याकाण्ड, 54
ततो भूतोपसृष्टेव वेपमाना पुनः पुनः ।
धरण्यां गतसत्त्वेव कौसल्या सूतम् अब्रवीत्
नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
तान् विना क्षणम् अप्य् अत्र जीवितुं नोत्सहे ह्य् अहम्
निवर्तय रथं शीघ्रं दण्डकान् नय माम् अपि ।
अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम्
बाष्पवेगोपहतया स वाचा सज्जमानया ।
इदम् आश्वासयन् देवीं सूतः प्राञ्जलिर् अब्रवीत्
त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा ।
व्यवधूय च संतापं वने वत्स्यति राघवः
लक्ष्मणश् चापि रामस्य पादौ परिचरन् वने ।
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः
विजने ऽपि वने सीता वासं प्राप्य गृहेष्व् इव ।
विस्रम्भं लभते ऽभीता रामे संन्यस्तमानसा
नास्या दैन्यं कृतं किंचित् सुसूक्ष्मम् अपि लक्षये ।
उचितेव प्रवासानां वैदेही प्रतिभाति मा
नगरोपवनं गत्वा यथा स्म रमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्व् अपि
बालेव रमते सीता बालचन्द्रनिभानना ।
रामा रामे ह्य् अधीनात्मा विजने ऽपि वने सती
तद्गतं हृदयं ह्य् अस्यास् तदधीनं च जीवितम् ।
अयोध्यापि भवेत् तस्या रामहीना तथा वनम्
पथि पृच्छति वैदेही ग्रामांश् च नगराणि च ।
गतिं दृष्ट्वा नदीनां च पादपान् विविधान् अपि
अध्वना वातवेगेन सम्भ्रमेणातपेन च ।
न हि गच्छति वैदेह्याश् चन्द्रांशुसदृशी प्रभा
सदृशं शतपत्त्रस्य पूर्णचन्द्रोपमप्रभम् ।
वदनं तद्वदान्याया वैदेह्या न विकम्पते
अलक्तरसरक्ताभाव् अलक्तरसवर्जितौ ।
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ
नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी ।
इदानीम् अपि वैदेही तद्रागा न्यस्तभूषणा
गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनम् आश्रिता ।
नाहारयति संत्रासं बाहू रामस्य संश्रिता
न शोच्यास् ते न चात्मा ते शोच्यो नापि जनाधिपः ।
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्
विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः ।
वने रता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते
तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता ।
न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0