रामायण (दक्षिणी पाठ) · अध्याय 2.5
रामायण, अयोध्याकाण्ड, 5
संदिश्य रामं नृपतिः श्वोभाविन्य् अभिषेचने ।
पुरोहितं समाहूय वसिष्ठम् इदम् अब्रवीत्
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन ।
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्
तथेति च स राजानम् उक्त्वा वेदविदां वरः ।
स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम्
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् ।
तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः
तम् आगतम् ऋषिं रामस् त्वरन्न् इव ससंभ्रमः ।
मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात्
अभ्येत्य त्वरमाणश् च रथाभ्याशं मनीषिणः ।
ततो ऽवतारयामास परिगृह्य रथात् स्वयम्
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च ।
प्रियार्हं हर्षयन् रामम् इत्य् उवाच पुरोहितः
प्रसन्नस् ते पिता राम यौवराज्यम् अवाप्स्यसि ।
उपवासं भवान् अद्य करोतु सह सीतया
प्रातस् त्वाम् अभिषेक्ता हि यौवराज्ये नराधिपः ।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा
इत्य् उक्त्वा स तदा रामम् उपवासं यतव्रतम् ।
मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः
ततो यथावद् रामेण स राज्ञो गुरुर् अर्चितः ।
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्
सुहृद्भिस् तत्र रामो ऽपि तान् अनुज्ञाप्य सर्वशः ।
सभाजितो विवेशाथ तान् अनुज्ञाप्य सर्वशः
हृष्टनारीनरयुतं रामवेश्म तदा बभौ ।
यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः
स राजभवनप्रख्यात् तस्माद् रामनिवेशनात् ।
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्
वृन्दवृन्दैर् अयोध्यायां राजमार्गाः समन्ततः ।
बभूवुर् अभिसंबाधाः कुतूहलजनैर् वृताः
जनवृन्दोर्मिसंघर्षहर्षस्वनवतस् तदा ।
बभूव राजमार्गस्य सागरस्येव निस्वनः
सिक्तसंमृष्टरथ्या हि तद् अहर् वनमालिनी ।
आसीद् अयोध्या नगरी समुच्छ्रितगृहध्वजा
तदा ह्य् अयोध्यानिलयः सस्त्रीबालाबलो जनः ।
रामाभिषेकम् आकाङ्क्षन्न् आकाङ्क्षन्न् उदयं रवेः
प्रजालंकारभूतं च जनस्यानन्दवर्धनम् ।
उत्सुको ऽभूज् जनो द्रष्टुं तम् अयोध्यामहोत्सवम्
एवं तं जनसम्बाधं राजमार्गं पुरोहितः ।
व्यूहन्न् इव जनौघं तं शनै राजकुलं ययौ
सिताभ्रशिखरप्रख्यं प्रासादम् अधिरुह्य सः ।
समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः
तम् आगतम् अभिप्रेक्ष्य हित्वा राजासनं नृपः ।
पप्रच्छ स च तस्मै तत् कृतम् इत्य् अभ्यवेदयत्
गुरुणा त्व् अभ्यनुज्ञातो मनुजौघं विसृज्य तम् ।
विवेशान्तःपुरं राजा सिंहो गिरिगुहाम् इव
तद् अग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम् ।
विदीपयंश् चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0