भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.6

2.6.1

रामायण, अयोध्याकाण्ड, 6
गते पुरोहिते रामः स्नातो नियतमानसः ।
सह पत्न्या विशालाक्ष्या नारायणम् उपागमत्

2.6.2

प्रगृह्य शिरसा पात्रीं हविषो विधिवत् तदा ।
महते दैवतायाज्यं जुहाव ज्वलिते ऽनले

2.6.3

शेषं च हविषस् तस्य प्राश्याशास्यात्मनः प्रियम् ।
ध्यायन् नारायणं देवं स्वास्तीर्णे कुशसंस्तरे

2.6.4

वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।
श्रीमत्य् आयतने विष्णोः शिश्ये नरवरात्मजः

2.6.5

एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।
अलंकारविधिं कृत्स्नं कारयामास वेश्मनः

2.6.6

तत्र शृण्वन् सुखा वाचः सूतमागधबन्दिनाम् ।
पूर्वां संध्याम् उपासीनो जजाप यतमानसः

2.6.7

तुष्टाव प्रणतश् चैव शिरसा मधुसूदनम् ।
विमलक्षौमसंवीतो वाचयामास च द्विजान्

2.6.8

तेषां पुण्याहघोषो ऽथ गम्भीरमधुरस् तदा ।
अयोध्यां पूरयामास तूर्यघोषानुनादितः

2.6.9

कृतोपवासं तु तदा वैदेह्या सह राघवम् ।
अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः

2.6.10

ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।
प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः

2.6.11

सिताभ्रशिखराभेषु देवतायतनेषु च ।
चतुष्पथेषु रथ्यासु चैत्येष्व् अट्टालकेषु च

2.6.12

नानापण्यसमृद्धेषु वणिजाम् आपणेषु च ।
कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च

2.6.13

सभासु चैव सर्वासु वृक्षेष्व् आलक्षितेषु च ।
ध्वजाः समुच्छ्रिताश् चित्राः पताकाश् चाभवंस् तदा

2.6.14

नटनर्तकसंघानां गायकानां च गायताम् ।
मनःकर्णसुखा वाचः शुश्रुवुश् च ततस् ततः

2.6.15

रामाभिषेकयुक्ताश् च कथाश् चक्रुर् मिथो जनाः ।
रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च

2.6.16

बाला अपि क्रीडमाना गृहद्वारेषु संघशः ।
रामाभिषेकसंयुक्ताश् चक्रुर् एव मिथः कथाः

2.6.17

कृतपुष्पोपहारश् च धूपगन्धाधिवासितः ।
राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने

2.6.18

प्रकाशकरणार्थं च निशागमनशङ्कया ।
दीपवृक्षांस् तथा चक्रुर् अनु रथ्यासु सर्वशः

2.6.19

अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः ।
आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्

2.6.20

समेत्य संघशः सर्वे चत्वरेषु सभासु च ।
कथयन्तो मिथस् तत्र प्रशशंसुर् जनाधिपम्

2.6.21

अहो महात्मा राजायम् इक्ष्वाकुकुलनन्दनः ।
ज्ञात्वा यो वृद्धम् आत्मानं रामं राज्ये ऽह्बिषेक्ष्यति

2.6.22

सर्वे ह्य् अनुगृहीताः स्म यन् नो रामो महीपतिः ।
चिराय भविता गोप्ता दृष्टलोकपरावरः

2.6.23

अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।
यथा च भ्रातृषु स्निग्धस् तथास्मास्व् अपि राघवः

2.6.24

चिरं जीवतु धर्मात्मा राजा दशरथो ऽनघः ।
यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्

2.6.25

एवंविधं कथयतां पौराणां शुश्रुवुस् तदा ।
दिग्भ्यो ऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः

2.6.26

ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।
रामस्य पूरयामासुः पुरीं जानपदा जनाः

2.6.27

जनौघैस् तैर् विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।
पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः

2.6.28

ततस् तद् इन्द्रक्षयसंनिभं पुरं दिदृक्षुभिर् जानपदैर् उपागतैः ।
समन्ततः सस्वनम् आकुलं बभौ समुद्रयादोभिर् इवार्णवोदकम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc