भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.4

2.4.1

रामायण, अयोध्याकाण्ड, 4
गतेष्व् अथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।
मन्त्रयित्वा ततश् चक्रे निश्चयज्ञः स निश्चयम्

2.4.2

श्व एव पुष्यो भविता श्वो ऽभिषेच्यस् तु मे सुतः ।
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः

2.4.3

अथान्तर्गृहम् आविश्य राजा दशरथस् तदा ।
सूतम् आज्ञापयामास रामं पुनर् इहानय

2.4.4

प्रतिगृह्य स तद्वाक्यं सूतः पुनर् उपाययौ ।
रामस्य भवनं शीघ्रं रामम् आनयितुं पुनः

2.4.5

द्वाःस्थैर् आवेदितं तस्य रामायागमनं पुनः ।
श्रुत्वैव चापि रामस् तं प्राप्तं शङ्कान्वितो ऽभवत्

2.4.6

प्रवेश्य चैनं त्वरितं रामो वचनम् अब्रवीत् ।
यद् आगमनकृत्यं ते भूयस् तद् ब्रूह्य् अशेषतः

2.4.7

तम् उवाच ततः सूतो राजा त्वां द्रष्टुम् इच्छति ।
श्रुत्वा प्रमाणम् अत्र त्वं गमनायेतराय वा

2.4.8

इति सूतवचः श्रुत्वा रामो ऽथ त्वरयान्वितः ।
प्रययौ राजभवनं पुनर् द्रष्टुं नरेश्वरम्

2.4.9

तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।
प्रवेशयामास गृहं विविक्षुः प्रियम् उत्तमम्

2.4.10

प्रविशन्न् एव च श्रीमान् राघवो भवनं पितुः ।
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः

2.4.11

प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।
प्रदिश्य चास्मै रुचिरम् आसनं पुनर् अब्रवीत्

2.4.12

राम वृद्धो ऽस्मि दीर्घायुर् भुक्ता भोगा मयेप्सिताः ।
अन्नवद्भिः क्रतुशतैस् तथेष्टं भूरिदक्षिणैः

2.4.13

जातम् इष्टम् अपत्यं मे त्वम् अद्यानुपमं भुवि ।
दत्तम् इष्टम् अधीतं च मया पुरुषसत्तम

2.4.14

अनुभूतानि चेष्टानि मया वीर सुखानि च ।
देवर्षिपितृविप्राणाम् अनृणो ऽस्मि तथात्मनः

2.4.15

न किंचिन् मम कर्तव्यं तवान्यत्राभिषेचनात् ।
अतो यत् त्वाम् अहं ब्रूयां तन् मे त्वं कर्तुम् अर्हसि

2.4.16

अद्य प्रकृतयः सर्वास् त्वाम् इच्छन्ति नराधिपम् ।
अतस् त्वां युवराजानम् अभिषेक्ष्यामि पुत्रक

2.4.17

अपि चाद्याशुभान् राम स्वप्नान् पश्यामि दारुणान् ।
सनिर्घाता महोल्काश् च पतन्तीह महास्वनाः

2.4.18

अवष्टब्धं च मे राम नक्षत्रं दारुणैर् ग्रहैः ।
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः

2.4.19

प्रायेण हि निमित्तानाम् ईदृशानां समुद्भवे ।
राजा वा मृत्युम् आप्नोति घोरां वापदम् ऋच्छति

2.4.20

तद् यावद् एव मे चेतो न विमुह्यति राघव ।
तावद् एवाभिषिञ्चस्व चला हि प्राणिनां मतिः

2.4.21

अद्य चन्द्रो ऽभ्युपगतः पुष्यात् पूर्वं पुनर् वसुम् ।
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः

2.4.22

तत्र पुष्ये ऽभिषिञ्चस्व मनस् त्वरयतीव माम् ।
श्वस् त्वाहम् अभिषेक्ष्यामि यौवराज्ये परंतप

2.4.23

तस्मात् त्वयाद्य व्रतिना निशेयं नियतात्मना ।
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना

2.4.24

सुहृदश् चाप्रमत्तास् त्वां रक्षन्त्व् अद्य समन्ततः ।
भवन्ति बहुविघ्नानि कार्याण्य् एवंविधानि हि

2.4.25

विप्रोषितश् च भरतो यावद् एव पुराद् इतः ।
तावद् एवाभिषेकस् ते प्राप्तकालो मतो मम

2.4.26

कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः

2.4.27

किं तु चित्तं मनुष्याणाम् अनित्यम् इति मे मतिः ।
सतां च धर्मनित्यानां कृतशोभि च राघव

2.4.28

इत्य् उक्तः सो ऽभ्यनुज्ञातः श्वोभाविन्य् अभिषेचने ।
व्रजेति रामः पितरम् अभिवाद्याभ्ययाद् गृहम्

2.4.29

प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टे ऽभिषेचने ।
तस्मिन् क्षणे विनिर्गत्य मातुर् अन्तःपुरं ययौ

2.4.30

तत्र तां प्रवणाम् एव मातरं क्षौमवासिनीम् ।
वाग्यतां देवतागारे ददर्श याचतीं श्रियम्

2.4.31

प्राग् एव चागता तत्र सुमित्रा लक्ष्मणस् तथा ।
सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम्

2.4.32

तस्मिन् काले हि कौसल्या तस्थाव् आमीलितेक्षणा ।
सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च

2.4.33

श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।
प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्

2.4.34

तथा सनियमाम् एव सो ऽभिगम्याभिवाद्य च ।
उवाच वचनं रामो हर्षयंस् ताम् इदं तदा

2.4.35

अम्ब पित्रा नियुक्तो ऽस्मि प्रजापालनकर्मणि ।
भविता श्वो ऽभिषेको मे यथा मे शासनं पितुः

2.4.36

सीतयाप्य् उपवस्तव्या रजनीयं मया सह ।
एवम् ऋत्विगुपाध्यायैः सह माम् उक्तवान् पिता

2.4.37

यानि यान्य् अत्र योग्यानि श्वोभाविन्य् अभिषेचने ।
तानि मे मङ्गलान्य् अद्य वैदेह्याश् चैव कारय

2.4.38

एतच् छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् ।
हर्षबाष्पकलं वाक्यम् इदं रामम् अभाषत

2.4.39

वत्स राम चिरं जीव हतास् ते परिपन्थिनः ।
ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश् च नन्दय

2.4.40

कल्याणे बत नक्षत्रे मयि जातो ऽसि पुत्रक ।
येन त्वया दशरथो गुणैर् आराधितः पिता

2.4.41

अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे ।
येयम् इक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति

2.4.42

इत्य् एवम् उक्तो मात्रेदं रामो भ्रातरम् अब्रवीत् ।
प्राञ्जलिं प्रह्वम् आसीनम् अभिवीक्ष्य स्मयन्न् इव

2.4.43

लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् ।
द्वितीयं मे ऽन्तरात्मानं त्वाम् इयं श्रीर् उपस्थिता

2.4.44

सौमित्रे भुङ्क्ष्व भोगांस् त्वम् इष्टान् राज्यफलानि च ।
जीवितं च हि राज्यं च त्वदर्थम् अभिकामये

2.4.45

इत्य् उक्त्वा लक्ष्मणं रामो मातराव् अभिवाद्य च ।
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc