भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.48

2.48.1

रामायण, अयोध्याकाण्ड, 48
ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम् ।
विमले ऽभ्युदिते सूर्ये तस्माद् देशात् प्रतस्थिरे

2.48.2

यत्र भागीरथी गङ्गा यमुनाम् अभिवर्तते ।
जग्मुस् तं देशम् उद्दिश्य विगाह्य सुमहद् वनम्

2.48.3

ते भूमिम् आगान् विविधान् देशांश् चापि मनोरमान् ।
अदृष्टपूर्वान् पश्यन्तस् तत्र तत्र यशस्विनः

2.48.4

यथाक्षेमेण गच्छन् स पश्यंश् च विविधान् द्रुमान् ।
निवृत्तमात्रे दिवसे रामः सौमित्रिम् अब्रवीत्

2.48.5

प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् ।
अग्नेर् भगवतः केतुं मन्ये संनिहितो मुनिः

2.48.6

नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर् वयम् ।
तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः

2.48.7

दारूणि परिभिन्नानि वनजैर् उपजीविभिः ।
भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः

2.48.8

धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे ।
गङ्गायमुनयोः संधौ प्रापतुर् निलयं मुनेः

2.48.9

रामस् त्व् आश्रमम् आसाद्य त्रासयन् मृगपक्षिणः ।
गत्वा मुहूर्तम् अध्वानं भरद्वाजम् उपागमत्

2.48.10

ततस् त्व् आश्रमम् आसाद्य मुनेर् दर्शनकाङ्क्षिणौ ।
सीतयानुगतौ वीरौ दूराद् एवावतस्थतुः

2.48.11

हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः ।
रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत्

2.48.12

न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः ।
पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ

2.48.13

भार्या ममेयं वैदेही कल्याणी जनकात्मजा ।
मां चानुयाता विजनं तपोवनम् अनिन्दिता

2.48.14

पित्रा प्रव्राज्यमानं मां सौमित्रिर् अनुजः प्रियः ।
अयम् अन्वगमद् भ्राता वनम् एव दृढव्रतः

2.48.15

पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस् तपोवनम् ।
धर्मम् एवाचरिष्यामस् तत्र मूलफलाशनाः

2.48.16

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
उपानयत धर्मात्मा गाम् अर्घ्यम् उदकं ततः

2.48.17

मृगपक्षिभिर् आसीनो मुनिभिश् च समन्ततः ।
रामम् आगतम् अभ्यर्च्य स्वागतेनाह तं मुनिः

2.48.18

प्रतिगृह्य च ताम् अर्चाम् उपविष्टं सराघवम् ।
भरद्वाजो ऽब्रवीद् वाक्यं धर्मयुक्तम् इदं तदा

2.48.19

चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इहागतम् ।
श्रुतं तव मया चेदं विवासनम् अकारणम्

2.48.20

अवकाशो विविक्तो ऽयं महानद्योः समागमे ।
पुण्यश् च रमणीयश् च वसत्व् इह भवान् सुखम्

2.48.21

एवम् उक्तस् तु वचनं भरद्वाजेन राघवः ।
प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः

2.48.23

भगवन्न् इत आसन्नः पौरजानपदो जनः ।
आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः ।
अनेन कारणेनाहम् इह वासं न रोचये ॥ रम्स्_2,48.22* ॥
एकान्ते पश्य भगवन्न् आश्रमस्थानम् उत्तमम् ।
रमते यत्र वैदेही सुखार्हा जनकात्मजा

2.48.24

एतच् छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः ।
राघवस्य ततो वाक्यम् अर्थग्राहकम् अब्रवीत्

2.48.25

दशक्रोश इतस् तात गिरिर् यस्मिन् निवत्स्यसि ।
महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः

2.48.26

गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः ।
चित्रकूट इति ख्यातो गन्धमादनसंनिभः

2.48.27

यावता चित्रकूटस्य नरः शृङ्गाण्य् अवेक्षते ।
कल्याणानि समाधत्ते न पापे कुरुते मनः

2.48.28

ऋषयस् तत्र बहवो विहृत्य शरदां शतम् ।
तपसा दिवम् आरूढाः कपालशिरसा सह

2.48.29

प्रविविक्तम् अहं मन्ये तं वासं भवतः सुखम् ।
इह वा वनवासाय वस राम मया सह

2.48.30

स रामं सर्वकामैस् तं भरद्वाजः प्रियातिथिम् ।
सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित्

2.48.31

तस्य प्रयागे रामस्य तं महर्षिम् उपेयुषः ।
प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः

2.48.32

प्रभातायां रजन्यां तु भरद्वाजम् उपागमत् ।
उवाच नरशार्दूलो मुनिं ज्वलिततेजसम्

2.48.33

शर्वरीं भवन्न् अद्य सत्यशील तवाश्रमे ।
उषिताः स्मेह वसतिम् अनुजानातु नो भवान्

2.48.34

रात्र्यां तु तस्यां व्युष्टायां भरद्वाजो ऽब्रवीद् इदम् ।
मधुमूलफलोपेतं चित्रकूटं व्रजेति ह

2.48.35

तत्र कुञ्जरयूथानि मृगयूथानि चाभितः ।
विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव

2.48.36

प्रहृष्टकोयष्टिककोकिलस्वनैर् विनादितं तं वसुधाधरं शिवम् ।
मृगैश् च मत्तैर् बहुभिश् च कुञ्जरैः सुरम्यम् आसाद्य समावसाश्रमम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc