रामायण (दक्षिणी पाठ) · अध्याय 2.47
रामायण, अयोध्याकाण्ड, 47
स तं वृक्षं समासाद्य संध्याम् अन्वास्य पश्चिमाम् ।
रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्
अद्येयं प्रथमा रात्रिर् याता जनपदाद् बहिः ।
या सुमन्त्रेण रहिता तां नोत्कण्ठितुम् अर्हसि
जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु ।
योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः
रात्रिं कथंचिद् एवेमां सौमित्रे वर्तयामहे ।
उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः
स तु संविश्य मेदिन्यां महार्हशयनोचितः ।
इमाः सौमित्रये रामो व्याजहार कथाः शुभाः
ध्रुवम् अद्य महाराजो दुःखं स्वपिति लक्ष्मण ।
कृतकामा तु कैकेयी तुष्टा भवितुम् अर्हति
सा हि देवी महाराजं कैकेयी राज्यकारणात् ।
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम्
अनाथश् चैव वृद्धश् च मया चैव विनाकृतः ।
किं करिष्यति कामात्मा कैकेय्या वशम् आगतः
इदं व्यसनम् आलोक्य राज्ञश् च मतिविभ्रमम् ।
काम एवार्धधर्माभ्यां गरीयान् इति मे मतिः
को ह्य् अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् ।
छन्दानुवर्तिनं पुत्रं तातो माम् इव लक्ष्मण
सुखी बत सभार्यश् च भरतः केकयीसुतः ।
मुदितान् कोसलान् एको यो भोक्ष्यत्य् अधिराजवत्
स हि सर्वस्य राज्यस्य मुखम् एकं भविष्यति ।
ताते च वयसातीते मयि चारण्यम् आश्रिते
अर्थधर्मौ परित्यज्य यः कामम् अनुवर्तते ।
एवम् आपद्यते क्षिप्रं राजा दशरथो यथा
मन्ये दशरथान्ताय मम प्रव्राजनाय च ।
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च
अपीदानीं न कैकेयी सौभाग्यमदमोहिता ।
कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते
मा स्म मत्कारणाद् देवी सुमित्रा दुःखम् आवसेत् ।
अयोध्याम् इत एव त्वं काले प्रविश लक्ष्मण
अहम् एको गमिष्यामि सीतया सह दण्डकान् ।
अनाथाया हि नाथस् त्वं कौसल्याया भविष्यसि
क्षुद्रकर्मा हि कैकेयी द्वेषाद् अन्याय्यम् आचरेत् ।
परिदद्या हि धर्मज्ञे भरते मम मातरम्
नूनं जात्यन्तरे कस्मिन् स्त्रियः पुत्रैर् वियोजिताः ।
जनन्या मम सौमित्रे तद् अप्य् एतद् उपस्थितम्
मया हि चिरपुष्टेन दुःखसंवर्धितेन च ।
विप्रायुज्यत कौसल्या फलकाले धिग् अस्तु माम्
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ।
सौमित्रे यो ऽहम् अम्बाया दद्मि शोकम् अनन्तकम्
मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका ।
यस्यास् तच् छ्रूयते वाक्यं शुक पादम् अरेर् दश
शोचन्त्याश् चाल्पभाग्याया न किंचिद् उपकुर्वता ।
पुत्रेण किम् अपुत्राया मया कार्यम् अरिंदम
अल्पभाग्या हि मे माता कौसल्या रहिता मया ।
शेते परमदुःखार्ता पतिता शोकसागरे
एको ह्य् अहम् अयोध्यां च पृथिवीं चापि लक्ष्मण ।
तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम्
अधर्मभयभीतश् च परलोकस्य चानघ ।
तेन लक्ष्मण नाद्याहम् आत्मानम् अभिषेचये
एतद् अन्यच् च करुणं विलप्य विजने बहु ।
अश्रुपूर्णमुखो रामो निशि तूष्णीम् उपाविशत्
विलप्योपरतं रामं गतार्चिषम् इवानलम् ।
समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः
ध्रुवम् अद्य पुरी राम अयोध्यायुधिनां वर ।
निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी
नैतद् औपयिकं राम यद् इदं परितप्यसे ।
विषादयसि सीतां च मां चैव पुरुषर्षभ
न च सीता त्वया हीना न चाहम् अपि राघव ।
मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इवोद्धृतौ
न हि तातं न शत्रुघ्नं न सुमित्रां परंतप ।
द्रष्टुम् इच्छेयम् अद्याहं स्वर्गं वापि त्वया विना
स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासम् आदरात् ।
समाः समस्ता विदधे परंतपः प्रपद्य धर्मं सुचिराय राघवः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0