भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.49

2.49.1

रामायण, अयोध्याकाण्ड, 49
उषित्वा रजनीं तत्र राजपुत्राव् अरिंदमौ ।
महर्षिम् अभिवाद्याथ जग्मतुस् तं गिरिं प्रति

2.49.2

प्रस्थितांश् चैव तान् प्रेक्ष्य पिता पुत्रान् इवान्वगात् ।
ततः प्रचक्रमे वक्तुं वचनं स महामुनिः

2.49.3

अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् ।
तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्

2.49.4

ततो न्यग्रोधम् आसाद्य महान्तं हरितच्छदम् ।
विवृद्धं बहुभिर् वृक्षैः श्यामं सिद्धोपसेवितम्

2.49.5

क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ।
पलाशबदरीमिश्रं राम वंशैश् च यामुनैः

2.49.7

स पन्थाश् चित्रकूटस्य गतः सुबहुशो मया ।
रम्यो मार्दवयुक्तश् च वनदावैर् विवर्जितः ।
इति पन्थानम् आवेद्य महर्षिः स न्यवर्तत ॥ रम्स्_2,49.6* ॥
उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणम् अब्रवीत् ।
कृतपुण्याः स्म सौमित्रे मुनिर् यन् नो ऽनुकम्पते

2.49.8

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ।
सीताम् एवाग्रतः कृत्वा कालिन्दीं जग्मतुर् नदीम्

2.49.9

तौ काष्ठसंघाटम् अथो चक्रतुः सुमहाप्लवम् ।
चकार लक्ष्मणश् छित्त्वा सीतायाः सुखम् आसनम्

2.49.10

तत्र श्रियम् इवाचिन्त्यां रामो दाशरथिः प्रियाम् ।
ईषत् संलज्जमानां ताम् अध्यारोपयत प्लवम्

2.49.11

ततः प्लवेनांशुमतीं शीघ्रगाम् ऊर्मिमालिनीम् ।
तीरजैर् बहुभिर् वृक्षैः संतेरुर् यमुनां नदीम्

2.49.12

ते तीर्णाः प्लवम् उत्सृज्य प्रस्थाय यमुनावनात् ।
श्यामं न्यग्रोधम् आसेदुः शीतलं हरितच्छदम्

2.49.13

कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् ।
इति सीताञ्जलिं कृत्वा पर्यगच्छद् वनस्पतिम्

2.49.14

क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ।
बहून् मेध्यान् मृगान् हत्वा चेरतुर् यमुनावने

2.49.15

विहृत्य ते बर्हिणपूगनादिते शुभे वने वारणवानरायुते ।
समं नदीवप्रम् उपेत्य संमतं निवासम् आजग्मुर् अदीनदर्शनाः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc