रामायण (दक्षिणी पाठ) · अध्याय 2.46
रामायण, अयोध्याकाण्ड, 46
प्रभातायां तु शर्वर्यां पृथुवृक्षा महायशाः ।
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्
भास्करोदयकालो ऽयं गता भगवती निशा ।
असौ सुकृष्णो विहगः कोकिलस् तात कूजति
बर्हिणानां च निर्घोषः श्रूयते नदतां वने ।
तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम्
विज्ञाय रामस्य वचः सौमित्रिर् मित्रनन्दनः ।
गुहम् आमन्त्र्य सूतं च सो ऽतिष्ठद् भ्रातुर् अग्रतः
ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ ।
जग्मतुर् येन तौ गङ्गां सीतया सह राघवौ
रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।
किम् अहं करवाणीति सूतः प्राञ्जलिर् अब्रवीत्
निवर्तस्वेत्य् उवाचैनम् एतावद्धि कृतं मम ।
यानं विहाय पद्भ्यां तु गमिष्यामो महावनम्
आत्मानं त्व् अभ्यनुज्ञातम् अवेक्ष्यार्तः स सारथिः ।
सुमन्त्रः पुरुषव्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत्
नातिक्रान्तम् इदं लोके पुरुषेणेह केनचित् ।
तव सभ्रातृभार्यस्य वासः प्राकृतवद् वने
न मन्ये ब्रह्मचर्ये ऽस्ति स्वधीते वा फलोदयः ।
मार्दवार्जवयोर् वापि त्वां चेद् व्यसनम् आगतम्
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।
त्वं गतिं प्राप्स्यसे वीर त्रींल् लोकांस् तु जयन्न् इव
वयं खलु हता राम ये तयाप्य् उपवञ्चिताः ।
कैकेय्या वशम् एष्यामः पापाया दुःखभागिनः
इति ब्रुवन्न् आत्मसमं सुमन्त्रः सारथिस् तदा ।
दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम्
ततस् तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् ।
रामस् तु मधुरं वाक्यं पुनः पुनर् उवाच तम्
इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ।
यथा दशरथो राजा मां न शोचेत् तथा कुरु
शोकोपहतचेताश् च वृद्धश् च जगतीपतिः ।
कामभारावसन्नश् च तस्माद् एतद् ब्रवीमि ते
यद् यद् आज्ञापयेत् किंचित् स महात्मा महीपतिः ।
कैकेय्याः प्रियकामार्थं कार्यं तद् अविकाङ्क्षया
एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ।
यद् एषां सर्वकृत्येषु मनो न प्रतिहन्यते
तद् यथा स महाराजो नालीकम् अधिगच्छति ।
न च ताम्यति दुःखेन सुमन्त्र कुरु तत् तथा
अदृष्टदुःखं राजानं वृद्धम् आर्यं जितेन्द्रियम् ।
ब्रूयास् त्वम् अभिवाद्यैव मम हेतोर् इदं वचः
नैवाहम् अनुशोचामि लक्ष्मणो न च मैथिली ।
अयोध्यायाश् च्युताश् चेति वने वत्स्यामहेति वा
चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।
लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रम् आगतान्
एवम् उक्त्वा तु राजानं मातरं च सुमन्त्र मे ।
अन्याश् च देवीः सहिताः कैकेयीं च पुनः पुनः
आरोग्यं ब्रूहि कौसल्याम् अथ पादाभिवन्दनम् ।
सीताया मम चार्यस्य वचनाल् लक्ष्मणस्य च
ब्रूयाश् च हि महाराजं भरतं क्षिप्रम् आनय ।
आगतश् चापि भरतः स्थाप्यो नृपमते पदे
भरतं च परिष्वज्य यौवराज्ये ऽभिषिच्य च ।
अस्मत्संतापजं दुःखं न त्वाम् अभिभविष्यति
भरतश् चापि वक्तव्यो यथा राजनि वर्तसे ।
तथा मातृषु वर्तेथाः सर्वास्व् एवाविशेषतः
यथा च तव कैकेयी सुमित्रा चाविशेषतः ।
तथैव देवी कौसल्या मम माता विशेषतः
निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः ।
तत् सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत्
यद् अहं नोपचारेण ब्रूयां स्नेहाद् अविक्लवः ।
भक्तिमान् इति तत् तावद् वाक्यं त्वं क्षन्तुम् अर्हसि
कथं हि त्वद्विहीनो ऽहं प्रतियास्यामि तां पुरीम् ।
तव तात वियोगेन पुत्रशोकाकुलाम् इव
सरामम् अपि तावन् मे रथं दृष्ट्वा तदा जनः ।
विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी
दैन्यं हि नगरी गच्छेद् दृष्ट्वा शून्यम् इमं रथम् ।
सूतावशेषं स्वं सैन्यं हतवीरम् इवाहवे
दूरे ऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् ।
चिन्तयन्त्यो ऽद्य नूनं त्वां निराहाराः कृताः प्रजाः
आर्तनादो हि यः पौरैर् मुक्तस् तद्विप्रवासने ।
रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः
अहं किं चापि वक्ष्यामि देवीं तव सुतो मया ।
नीतो ऽसौ मातुलकुलं संतापं मा कृथा इति
असत्यम् अपि नैवाहं ब्रूयां वचनम् ईदृशम् ।
कथम् अप्रियम् एवाहं ब्रूयां सत्यम् इदं वचः
मम तावन् नियोगस्थास् त्वद्बन्धुजनवाहिनः ।
कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः
यदि मे याचमानस्य त्यागम् एव करिष्यसि ।
सरथो ऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया
भविष्यन्ति वने यानि तपोविघ्नकराणि ते ।
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव
त्वत्कृते न मया प्राप्तं रथचर्याकृतं सुखम् ।
आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम्
प्रसीदेच्छामि ते ऽरण्ये भवितुं प्रत्यनन्तरः ।
प्रीत्याभिहितम् इच्छामि भव मे पत्यनन्तरः
तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् ।
अयोध्यां देवलोकं वा सर्वथा प्रजहाम्य् अहम्
न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना ।
राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा
इमे चापि हया वीर यदि ते वनवासिनः ।
परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्
वनवासे क्षयं प्राप्ते ममैष हि मनोरथः ।
यद् अनेन रथेनैव त्वां वहेयं पुरीं पुनः
चतुर्दश हि वर्षाणि सहितस्य त्वया वने ।
क्षणभूतानि यास्यन्ति शतशस् तु ततो ऽन्यथा
भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि ।
भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुम् अर्हसि
एवं बहुविधं दीनं याचमानं पुनः पुनः ।
रामो भृत्यानुकम्पी तु सुमन्त्रम् इदम् अब्रवीत्
जानामि परमां भक्तिं मयि ते भर्तृवत्सल ।
शृणु चापि यदर्थं त्वां प्रेषयामि पुरीम् इतः
नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ।
कैकेयी प्रत्ययं गच्छेद् इति रामो वनं गतः
परितुष्टा हि सा देवी वनवासं गते मयि ।
राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम्
एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।
भरतारक्षितं स्फीतं पुत्रराज्यम् अवाप्नुयात्
मम प्रियार्थं राज्ञश् च सरथस् त्वं पुरीं व्रज ।
संदिष्टश् चासि यानर्थांस् तांस् तान् ब्रूयास् तथातथा
इत्य् उक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः ।
गुहं वचनम् अक्लीबं रामो हेतुमद् अब्रवीत् ।
जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरम् आनय ॥ रम्स्_2,46.55* ॥
तत् क्षीरं राजपुत्राय गुहः क्षिप्रम् उपाहरत् ।
लक्ष्मणस्यात्मनश् चैव रामस् तेनाकरोज् जटाः
तौ तदा चीरवसनौ जटामण्डलधारिणौ ।
अशोभेताम् ऋषिसमौ भ्रातरौ रामलक्ष्मणौ
ततो वैखानसं मार्गम् आस्थितः सहलक्ष्मणः ।
व्रतम् आदिष्टवान् रामः सहायं गुहम् अब्रवीत्
अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ।
भवेथा गुह राज्यं हि दुरारक्षतमं मतम्
ततस् तं समनुज्ञाय गुहम् इक्ष्वाकुनन्दनः ।
जगाम तूर्णम् अव्यग्रः सभार्यः सहलक्ष्मणः
स तु दृष्ट्वा नदीतीरे नावम् इक्ष्वाकुनन्दनः ।
तितीर्षुः शीघ्रगां गङ्गाम् इदं लक्ष्मणम् अब्रवीत्
आरोह त्वं नरव्याघ्र स्थितां नावम् इमां शनैः ।
सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्
स भ्रातुः शासनं श्रुत्वा सर्वम् अप्रतिकूलयन् ।
आरोप्य मैथिलीं पूर्वम् आरुरोहात्मवांस् ततः
अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ।
ततो निषादाधिपतिर् गुहो ज्ञातीन् अचोदयत्
अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् ।
आस्थाय नावं रामस् तु चोदयामास नाविकान्
ततस् तैश् चोदिता सा नौः कर्णधारसमाहिता ।
शुभस्फ्यवेगाभिहता शीघ्रं सलिलम् अत्यगात्
मध्यं तु समनुप्राप्य भागीरथ्यास् त्व् अनिन्दिता ।
वैदेही प्राञ्जलिर् भूत्वा तां नदीम् इदम् अब्रवीत्
पुत्रो दशरथस्यायं महाराजस्य धीमतः ।
निदेशं पालयत्व् एनं गङ्गे त्वदभिरक्षितः
चतुर्दश हि वर्षाणि समग्राण्य् उष्य कानने ।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति
ततस् त्वां देवि सुभगे क्षेमेण पुनर् आगता ।
यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये
त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे ।
भार्या चोदधिराजस्य लोके ऽस्मिन् सम्प्रदृश्यसे
सा त्वां देवि नमस्यामि प्रशंसामि च शोभने ।
प्राप्तराज्ये नरव्याघ्रे शिवेन पुनर् आगते
गवां शतसहस्राणि वस्त्राण्य् अन्नं च पेशलम् ।
ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया
तथा संभाषमाणा सा सीता गङ्गाम् अनिन्दिता ।
दक्षिणा दक्षिणं तीरं क्षिप्रम् एवाभ्युपागमत्
तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ।
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः
अथाब्रवीन् महाबाहुः सुमित्रानन्दवर्धनम् ।
अग्रतो गच्छ सौमित्रे सीता त्वाम् अनुगच्छतु
पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन् ।
अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति
गतं तु गङ्गापरपारम् आशु रामं सुमन्त्रः प्रततं निरीक्ष्य ।
अध्वप्रकर्षाद् विनिवृत्तदृष्टिर् मुमोच बाष्पं व्यथितस् तपस्वी
तौ तत्र हत्वा चतुरो महामृगान् वराहम् ऋश्यं पृषतं महारुरुम् ।
आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर् वनस्पतिम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0