रामायण (दक्षिणी पाठ) · अध्याय 2.45
रामायण, अयोध्याकाण्ड, 45
तं जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।
गुहः संतापसंतप्तो राघवं वाक्यम् अब्रवीत्
इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता ।
प्रत्याश्वसिहि साध्व् अस्यां राजपुत्र यथासुखम्
उचितो ऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः ।
गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्
न हि रामात् प्रियतरो ममास्ति भुवि कश्चन ।
ब्रवीम्य् एतद् अहं सत्यं सत्येनैव च ते शपे
अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः ।
धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम्
सो ऽहं प्रियसखं रामं शयानं सह सीतया ।
रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह
न हि मे ऽविदितं किंचिद् वने ऽस्मिंश् चरतः सदा ।
चतुरङ्गं ह्य् अपि बलं सुमहत् प्रसहेमहि
लक्ष्मणस् तं तदोवाच रक्ष्यमाणास् त्वयानघ ।
नात्र भीता वयं सर्वे धर्मम् एवानुपश्यता
कथं दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।
तं पश्य सुखसंविष्टं तृणेषु सह सीतया
यो मन्त्रतपसा लब्धो विविधैश् च परिश्रमैः ।
एको दशरथस्यैष पुत्रः सदृशलक्षणः
अस्मिन् प्रव्रजितो राजा न चिरं वर्तयिष्यति ।
विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।
निर्घोषोपरतं तात मन्ये राजनिवेशनम्
कौसल्या चैव राजा च तथैव जननी मम ।
नाशंसे यदि जीवन्ति सर्वे ते शर्वरीम् इमाम्
जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।
तद् दुःखं यत् तु कौसल्या वीरसूर् विनशिष्यति
अनुरक्तजनाकीर्णा सुखालोकप्रियावहा ।
राजव्यसनसंसृष्टा सा पुरी विनशिष्यति
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति
सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते ।
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।
हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम्
रथाश्वगजसम्बाधां तूर्यनादविनादिताम् ।
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम्
आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम् ।
सुखिता विचरिष्यन्ति राजधानीं पितुर् मम
अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् ।
निवृत्ते वनवासे ऽस्मिन्न् अयोध्यां प्रविशेमहि
परिदेवयमानस्य दुःखार्तस्य महात्मनः ।
तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत
तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः ।
मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0