रामायण (दक्षिणी पाठ) · अध्याय 2.44
रामायण, अयोध्याकाण्ड, 44
विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः ।
आससाद महाबाहुः शृङ्गवेरपुरं प्रति
तत्र त्रिपथगां दिव्यां शिवतोयाम् अशैवलाम् ।
ददर्श राघवो गङ्गां पुण्याम् ऋषिनिषेविताम्
हंससारससंघुष्टां चक्रवाकोपकूजिताम् ।
शिशुमारैश् च नक्रैश् च भुजंगैश् च निषेविताम्
ताम् ऊर्मिकलिलावर्ताम् अन्ववेक्ष्य महारथः ।
सुमन्त्रम् अब्रवीत् सूतम् इहैवाद्य वसामहे
अविदूराद् अयं नद्या बहुपुष्पप्रवालवान् ।
सुमहान् इङ्गुदीवृक्षो वसामो ऽत्रैव सारथे
लक्षणश् च सुमन्त्रश् च बाढम् इत्य् एव राघवम् ।
उक्त्वा तम् इङ्गुदीवृक्षं तदोपययतुर् हयैः
रामो ऽभियाय तं रम्यं वृक्षम् इक्ष्वाकुनन्दनः ।
रथाद् अवातरत् तस्मात् सभार्यः सहलक्ष्मणः
सुमन्त्रो ऽप्य् अवतीर्यैव मोचयित्वा हयोत्तमान् ।
वृक्षमूलगतं रामम् उपतस्थे कृताञ्जलिः
तत्र राजा गुहो नाम रामस्यात्मसमः सखा ।
निषादजात्यो बलवान् स्थपतिश् चेति विश्रुतः
स श्रुत्वा पुरुषव्याघ्रं रामं विषयम् आगतम् ।
वृद्धैः परिवृतो ऽमात्यैर् ज्ञातिभिश् चाप्य् उपागतः
ततो निषादाधिपतिं दृष्ट्वा दूराद् अवस्थितम् ।
सह सौमित्रिणा रामः समागच्छद् गुहेन सः
तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् ।
यथायोध्या तथेदं ते राम किं करवाणि ते
ततो गुणवदन्नाद्यम् उपादाय पृथग्विधम् ।
अर्घ्यं चोपानयत् क्षिप्रं वाक्यं चेदम् उवाच ह
स्वागतं ते महाबाहो तवेयम् अखिला मही ।
वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः
भक्ष्यं भोज्यं च पेयं च लेह्यं चेदम् उपस्थितम् ।
शयनानि च मुख्यानि वाजिनां खादनं च ते
गुहम् एव ब्रुवाणं तं राघवः प्रत्युवाच ह ।
अर्चिताश् चैव हृष्टाश् च भवता सर्वथा वयम्
पद्भ्याम् अभिगमाच् चैव स्नेहसंदर्शनेन च ।
भुजाभ्यां साधुवृत्ताभ्यां पीडयन् वाक्यम् अब्रवीत्
दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः ।
अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च
यत् त्व् इदं भवता किंचित् प्रीत्या समुपकल्पितम् ।
सर्वं तद् अनुजानामि न हि वर्ते प्रतिग्रहे
कुशचीराजिनधरं फलमूलाशनं च माम् ।
विद्धि प्रणिहितं धर्मे तापसं वनगोचरम्
अश्वानां खादनेनाहम् अर्थी नान्येन केनचित् ।
एतावतात्रभवता भविष्यामि सुपूजितः
एते हि दयिता राज्ञः पितुर् दशरथस्य मे ।
एतैः सुविहितैर् अश्वैर् भविष्याम्य् अहम् अर्चितः
अश्वानां प्रतिपानं च खादनं चैव सो ऽन्वशात् ।
गुहस् तत्रैव पुरुषांस् त्वरितं दीयताम् इति
ततश् चीरोत्तरासङ्गः संध्याम् अन्वास्य पश्चिमाम् ।
जलम् एवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम्
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
सभार्यस्य ततो ऽभ्येत्य तस्थौ वृक्षम् उपाश्रितः
गुहो ऽपि सह सूतेन सौमित्रिम् अनुभाषयन् ।
अन्वजाग्रत् ततो रामम् अप्रमत्तो धनुर्धरः
तथा शयानस्य ततो ऽस्य धीमतो यशस्विनो दाशरथेर् महात्मनः ।
अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0