रामायण (दक्षिणी पाठ) · अध्याय 2.42
रामायण, अयोध्याकाण्ड, 42
अनुगम्य निवृत्तानां रामं नगरवासिनाम् ।
उद्गतानीव सत्त्वानि बभूवुर् अमनस्विनाम्
स्वं स्वं निलयम् आगम्य पुत्रदारैः समावृताः ।
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः
न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् ।
न चाशोभन्त पण्यानि नापचन् गृहमेधिनः
नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् ।
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत
गृहे गृहे रुदन्त्यश् च भर्तारं गृहम् आगतम् ।
व्यगर्हयन्त दुःखार्ता वाग्भिस् तोत्रैर् इव द्विपान्
किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा ।
पुत्रैर् वा किं सुखैर् वापि ये न पश्यन्ति राघवम्
एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया ।
यो ऽनुगच्छति काकुत्स्थं रामं परिचरन् वने
आपगाः कृतपुण्यास् ताः पद्मिन्यश् च सरांसि च ।
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि
शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्यकाननाः ।
आपगाश् च महानूपाः सानुमन्तश् च पर्वताः
काननं वापि शैलं वा यं रामो ऽभिगमिष्यति ।
प्रियातिथिम् इव प्राप्तं नैनं शक्ष्यन्त्य् अनर्चितुम्
विचित्रकुसुमापीडा बहुमञ्जरिधारिणः ।
अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
दर्शयिष्यन्त्य् अनुक्रोशाद् गिरयो रामम् आगतम् ॥ रम्स्_2,42.11* ॥
विदर्शयन्तो विविधान् भूयश् चित्रांश् च निर्झरान् ।
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम्
यत्र रामो भयं नात्र नास्ति तत्र पराभवः ।
स हि शूरो महाबाहुः पुत्रो दशरथस्य च
पुरा भवति नो दूराद् अनुगच्छाम राघवम् ।
पादच्छाया सुखा भर्तुस् तादृशस्य महात्मनः ।
स हि नाथो जनस्यास्य स गतिः स परायणम् ॥ रम्स्_2,42.14* ॥
वयं परिचरिष्यामः सीतां यूयं तु राघवम् ।
इति पौरस्त्रियो भर्त्ःन् दुःखार्तास् तत् तद् अब्रुवन्
युष्माकं राघवो ऽरण्ये योगक्षेमं विधास्यति ।
सीता नारीजनस्यास्य योगक्षेमं करिष्यति
को न्व् अनेनाप्रतीतेन सोत्कण्ठितजनेन च ।
संप्रीयेतामनोज्ञेन वासेन हृतचेतसा
कैकेय्या यदि चेद् राज्यं स्याद् अधर्म्यम् अनाथवत् ।
न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः
यया पुत्रश् च भर्ता च त्यक्ताव् ऐश्वर्यकारणात् ।
कं सा परिहरेद् अन्यं कैकेयी कुलपांसनी
कैकेय्या न वयं राज्ये भृतका निवसेम हि ।
जीवन्त्या जातु जीवन्त्यः पुत्रैर् अपि शपामहे
या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा ।
कस् तां प्राप्य सुखं जीवेद् अधर्म्यां दुष्टचारिणीम्
न हि प्रव्रजिते रामे जीविष्यति महीपतिः ।
मृते दशरथे व्यक्तं विलोपस् तदनन्तरम्
ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः ।
राघवं वानुगच्छध्वम् अश्रुतिं वापि गच्छत
मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः ।
भरते संनिसृष्टाः स्मः सौनिके पशवो यथा
तास् तथा विलपन्त्यस् तु नगरे नागरस्त्रियः ।
चुक्रुशुर् भृशसंतप्ता मृत्योर् इव भयागमे
तथा स्त्रियो रामनिमित्तम् आतुरा यथा सुते भ्रातरि वा विवासिते ।
विलप्य दीना रुरुदुर् विचेतसः सुतैर् हि तासाम् अधिको हि सो ऽभवत्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0