रामायण (दक्षिणी पाठ) · अध्याय 2.41
रामायण, अयोध्याकाण्ड, 41
ततस् तु तमसा तीरं रम्यम् आश्रित्य राघवः ।
सीताम् उद्वीक्ष्य सौमित्रिम् इदं वचनम् अब्रवीत्
इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् ।
वनवासस्य भद्रं ते स नोत्कण्ठितुम् अर्हसि
पश्य शून्यान्य् अरण्यानि रुदन्तीव समन्ततः ।
यथानिलयम् आयद्भिर् निलीनानि मृगद्विजैः
अद्यायोध्या तु नगरी राजधानी पितुर् मम ।
सस्त्रीपुंसा गतान् अस्माञ् शोचिष्यति न संशयः
भरतः खलु धर्मात्मा पितरं मातरं च मे ।
धर्मार्थकामसहितैर् वाक्यैर् आश्वासयिष्यति
भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः ।
नानुशोचामि पितरं मातरं चापि लक्ष्मण
त्वया कार्यं नरव्याघ्र माम् अनुव्रजता कृतम् ।
अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता
अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् ।
एतद्धि रोचते मह्यं वन्ये ऽपि विविधे सति
एवम् उक्त्वा तु सौमित्रं सुमन्त्रम् अपि राघवः ।
अप्रमत्तस् त्वम् अश्वेषु भव सौम्येत्य् उवाच ह
सो ऽश्वान् सुमन्त्रः संयम्य सूर्ये ऽस्तं समुपागते ।
प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः
उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिम् उपस्थिताम् ।
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् ।
रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह
सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः ।
कथयामास सूताय रामस्य विविधान् गुणान्
जाग्रतो ह्य् एव तां रात्रिं सौमित्रेर् उदितो रविः ।
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्
गोकुलाकुलतीरायास् तमसाया विदूरतः ।
अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह
उत्थाय तु महातेजाः प्रकृतीस् ता निशाम्य च ।
अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्
अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि ।
वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम्
यथैते नियमं पौराः कुर्वन्त्य् अस्मन्निवर्तने ।
अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्
यावद् एव तु संसुप्तास् तावद् एव वयं लघु ।
रथम् आरुह्य गच्छामः पन्थानम् अकुतोभयम्
अतो भूयो ऽपि नेदानीम् इक्ष्वाकुपुरवासिनः ।
स्वपेयुर् अनुरक्ता मां वृक्षमूलानि संश्रिताः
पौरा ह्य् आत्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः ।
न तु खल्व् आत्मना योज्या दुःखेन पुरवासिनः
अब्रवील् लक्ष्मणो रामं साक्षाद् धर्मम् इव स्थितम् ।
रोचते मे महाप्राज्ञ क्षिप्रम् आरुह्यताम् इति
सूतस् ततः संत्वरितः स्यन्दनं तैर् हयोत्तमैः ।
योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत्
मोहनार्थं तु पौराणां सूतं रामो ऽब्रवीद् वचः ।
उदङ्मुखः प्रयाहि त्वं रथम् आस्थाय सारथे
मुहूर्तं त्वरितं गत्वा निर्वर्तय रथं पुनः ।
यथा न विद्युः पौरा मां तथा कुरु समाहितः
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ।
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्
तं स्यन्दनम् अधिष्ठाय राघवः सपरिच्छदः ।
शीघ्रगाम् आकुलावर्तां तमसाम् अतरन् नदीम्
स संतीर्य महाबाहुः श्रीमाञ् शिवम् अकण्टकम् ।
प्रापद्यत महामार्गम् अभयं भयदर्शिनाम्
प्रभातायां तु शर्वर्यां पौरास् ते राघवं विना ।
शोकोपहतनिश्चेष्टा बभूवुर् हतचेतसः
शोकजाश्रुपरिद्यूना वीक्षमाणास् ततस् ततः ।
आलोकम् अपि रामस्य न पश्यन्ति स्म दुःखिताः
ततो मार्गानुसारेण गत्वा किंचित् क्षणं पुनः ।
मार्गनाशाद् विषादेन महता समभिप्लुतः
रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः ।
किम् इदं किं करिष्यामो दैवेनोपहता इति
ततो यथागतेनैव मार्गेण क्लान्तचेतसः ।
अयोध्याम् अगमन् सर्वे पुरीं व्यथितसज्जनाम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0