भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.40

2.40.1

रामायण, अयोध्याकाण्ड, 40
अनुरक्ता महात्मानं रामं सत्यपराक्रमम् ।
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः

2.40.2

निवर्तिते ऽपि च बलात् सुहृद्वर्गे च राजनि ।
नैव ते संन्यवर्तन्त रामस्यानुगता रथम्

2.40.3

अयोध्यानिलयानां हि पुरुषाणां महायशाः ।
बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः

2.40.4

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा ।
कुर्वाणः पितरं सत्यं वनम् एवान्वपद्यत

2.40.5

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्न् इव ।
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव

2.40.6

या प्रीतिर् बहुमानश् च मय्य् अयोध्यानिवासिनाम् ।
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्

2.40.7

स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः ।
करिष्यति यथावद् वः प्रियाणि च हितानि च

2.40.8

ज्ञानवृद्धो वयोबालो मृदुर् वीर्यगुणान्वितः ।
अनुरूपः स वो भर्ता भविष्यति भयापहः

2.40.9

स हि राजगुणैर् युक्तो युवराजः समीक्षितः ।
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्

2.40.10

न च तप्येद् यथा चासौ वनवासं गते मयि ।
महाराजस् तथा कार्यो मम प्रियचिकीर्षया

2.40.11

यथा यथा दाशरथिर् धर्मम् एवास्थितो ऽभवत् ।
तथा तथा प्रकृतयो रामं पतिम् अकामयन्

2.40.12

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह ।
चकर्षेव गुणैर् बद्ध्वा जनं पुनर् इवासनम्

2.40.13

ते द्विजास् त्रिविधं वृद्धा ज्ञानेन वयसौजसा ।
वयःप्रकम्पशिरसो दूराद् ऊचुर् इदं वचः

2.40.15

वहन्तो जवना रामं भो भो जात्यास् तुरंगमाः ।
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ।
उपवाह्यस् तु वो भर्ता नापवाह्यः पुराद् वनम् ॥ रम्स्_2,40.14* ॥
एवम् आर्तप्रलापांस् तान् वृद्धान् प्रलपतो द्विजान् ।
अवेक्ष्य सहसा रामो रथाद् अवततार ह

2.40.16

पद्भ्याम् एव जगामाथ ससीतः सहलक्ष्मणः ।
संनिकृष्टपदन्यासो रामो वनपरायणः

2.40.17

द्विजातींस् तु पदातींस् तान् रामश् चारित्रवत्सलः ।
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः

2.40.18

गच्छन्तम् एव तं दृष्ट्वा रामं संभ्रान्तमानसाः ।
ऊचुः परमसंतप्ता रामं वाक्यम् इदं द्विजाः

2.40.19

ब्राह्मण्यं कृत्स्नम् एतत् त्वां ब्रह्मण्यम् अनुगच्छति ।
द्विजस्कन्धाधिरूढास् त्वाम् अग्नयो ऽप्य् अनुयान्त्य् अमी

2.40.20

वाजपेयसमुत्थानि छत्त्राण्य् एतानि पश्य नः ।
पृष्ठतो ऽनुप्रयातानि हंसान् इव जलात्यये

2.40.21

अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते ।
एभिश् छायां करिष्यामः स्वैश् छत्त्रैर् वाजपेयिकैः

2.40.22

या हि नः सततं बुद्धिर् वेदमन्त्रानुसारिणी ।
त्वत्कृते सा कृता वत्स वनवासानुसारिणी

2.40.23

हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परं धनम् ।
वत्स्यन्त्य् अपि गृहेष्व् एव दाराश् चारित्ररक्षिताः

2.40.24

न पुनर् निश्चयः कार्यस् त्वद्गतौ सुकृता मतिः ।
त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मम् अवेक्षितुम्

2.40.25

याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः ।
शिरोभिर् निभृताचार महीपतनपांसुलैः

2.40.26

बहूनां वितता यज्ञा द्विजानां य इहागताः ।
तेषां समाप्तिर् आयत्ता तव वत्स निवर्तने

2.40.27

भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च ।
याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय

2.40.28

अनुगन्तुम् अशक्तास् त्वां मूलैर् उद्धृतवेगिनः ।
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः

2.40.29

निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः ।
पक्षिणो ऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्

2.40.30

एवं विक्रोशतां तेषां द्विजातीनां निवर्तने ।
ददृशे तमसा तत्र वारयन्तीव राघवम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc