भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.39

2.39.1

रामायण, अयोध्याकाण्ड, 39
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।
इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यम् अब्रवीत्

2.39.2

तवार्ये सद्गुणैर् युक्तः पुत्रः स पुरुषोत्तमः ।
किं ते विलपितेनैवं कृपणं रुदितेन वा

2.39.3

यस् तवार्ये गतः पुत्रस् त्यक्त्वा राज्यं महाबलः ।
साधु कुर्वन् महात्मानं पितरं सत्यवादिनाम्

2.39.4

शिष्टैर् आचरिते सम्यक् शश्वत् प्रेत्य फलोदये ।
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन

2.39.5

वर्तते चोत्तमां वृत्तिं लक्ष्मणो ऽस्मिन् सदानघः ।
दयावान् सर्वभूतेषु लाभस् तस्य महात्मनः

2.39.6

अरण्यवासे यद् दुःखं जानती वै सुखोचिता ।
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्

2.39.7

कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः ।
दमसत्यव्रतपरः किं न प्राप्तस् तवात्मजः

2.39.8

व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यम् उत्तमम् ।
न गात्रम् अंशुभिः सूर्यः संतापयितुम् अर्हति

2.39.9

शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः ।
राघवं युक्तशीतोष्णः सेविष्यति सुखो ऽनिलः

2.39.10

शयानम् अनघं रात्रौ पितेवाभिपरिष्वजन् ।
रश्मिभिः संस्पृशञ् शीतैश् चन्द्रमा ह्लादयिष्यति

2.39.11

ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे ।
दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे

2.39.12

पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ।
क्षिप्रं तिसृभिर् एताभिः सह रामो ऽभिषेक्ष्यते

2.39.13

दुःखजं विसृजन्त्य् अस्रं निष्क्रामन्तम् उदीक्ष्य यम् ।
समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रम् आनन्दजं पयः

2.39.14

अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् ।
मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी

2.39.15

पुत्रस् ते वरदः क्षिप्रम् अयोध्यां पुनर् आगतः ।
कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति

2.39.16

निशम्य तल् लक्ष्मणमातृवाक्यं रामस्य मातुर् नरदेवपत्न्याः ।
सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc