भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.3

2.3.1

रामायण, अयोध्याकाण्ड, 3
तेषाम् अञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।
प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः

2.3.2

अहो ऽस्मि परमप्रीतः प्रभावश् चातुलो मम ।
यन् मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थम् इच्छथ

2.3.3

इति प्रत्यर्च्य तान् राजा ब्राह्मणान् इदम् अब्रवीत् ।
वसिष्ठं वामदेवं च तेषाम् एवोपशृण्वताम्

2.3.4

चैत्रः श्रीमान् अयं मासः पुण्यः पुष्पितकाननः ।
यौवराज्याय रामस्य सर्वम् एवोपकल्प्यताम्

2.3.5

कृतम् इत्य् एव चाब्रूताम् अभिगम्य जगत्पतिम् ।
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ

2.3.6

ततः सुमन्त्रं द्युतिमान् राजा वचनम् अब्रवीत् ।
रामः कृतात्मा भवता शीघ्रम् आनीयताम् इति

2.3.7

स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ।
रामं तत्रानयांचक्रे रथेन रथिनां वरम्

2.3.8

अथ तत्र समासीनास् तदा दशरथं नृपम् ।
प्राच्योदीच्याः प्रतीच्याश् च दाक्षिणात्याश् च भूमिपाः

2.3.9

म्लेच्छाश् चार्याश् च ये चान्ये वनशैलान्तवासिनः ।
उपासांचक्रिरे सर्वे तं देवा इव वासवम्

2.3.10

तेषां मध्ये स राजर्षिर् मरुताम् इव वासवः ।
प्रासादस्थो रथगतं ददर्शायान्तम् आत्मजम्

2.3.11

गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ।
दीर्घबाहुं महासत्त्वं मत्तमातंगगामिनम्

2.3.12

चन्द्रकान्ताननं रामम् अतीव प्रियदर्शनम् ।
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्

2.3.13

घर्माभितप्ताः पर्जन्यं ह्लादयन्तम् इव प्रजाः ।
न ततर्प समायान्तं पश्यमानो नराधिपः

2.3.14

अवतार्य सुमन्त्रस् तं राघवं स्यन्दनोत्तमात् ।
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतो ऽन्वगात्

2.3.15

स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः ।
आरुरोह नृपं द्रष्टुं सह सूतेन राघवः

2.3.16

स प्राञ्जलिर् अभिप्रेत्य प्रणतः पितुर् अन्तिके ।
नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः

2.3.17

तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ।
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियम् आत्मजम्

2.3.18

तस्मै चाभ्युद्यतं श्रीमान् मणिकाञ्चनभूषितम् ।
दिदेश राजा रुचिरं रामाय परमासनम्

2.3.19

तद् आसनवरं प्राप्य व्यदीपयत राघवः ।
स्वयेव प्रभया मेरुम् उदये विमलो रविः

2.3.20

तेन विभ्राजिता तत्र सा सभाभिव्यरोचत ।
विमलग्रहनक्षत्रा शारदी द्यौर् इवेन्दुना

2.3.21

तं पश्यमानो नृपतिस् तुतोष प्रियम् आत्मजम् ।
अलंकृतम् इवात्मानम् आदर्शतलसंस्थितम्

2.3.22

स तं सस्मितम् आभाष्य पुत्रं पुत्रवतां वरः ।
उवाचेदं वचो राजा देवेन्द्रम् इव कश्यपः

2.3.23

ज्येष्ठायाम् असि मे पत्न्यां सदृश्यां सदृशः सुतः ।
उत्पन्नस् त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः

2.3.24

त्वया यतः प्रजाश् चेमाः स्वगुणैर् अनुरञ्जिताः ।
तस्मात् त्वं पुष्ययोगेन यौवराज्यम् अवाप्नुहि

2.3.25

कामतस् त्वं प्रकृत्यैव विनीतो गुणवान् असि ।
गुणवत्य् अपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्

2.3.26

भूयो विनयम् आस्थाय भव नित्यं जितेन्द्रियः ।
कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च

2.3.27

परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ।
अमात्यप्रभृतीः सर्वाः प्रकृतीश् चानुरञ्जय

2.3.28

तुष्टानुरक्तप्रकृतिर् यः पालयति मेदिनीम् ।
तस्य नन्दन्ति मित्राणि लब्ध्वामृतम् इवामराः ।
तस्मात् पुत्र त्वम् आत्मानं नियम्यैव समाचर

2.3.29

तच् छ्रुत्वा सुहृदस् तस्य रामस्य प्रियकारिणः ।
त्वरिताः शीघ्रम् अभ्येत्य कौसल्यायै न्यवेदयन्

2.3.30

सा हिरण्यं च गाश् चैव रत्नानि विविधानि च ।
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा

2.3.31

अथाभिवाद्य राजानं रथम् आरुह्य राघवः ।
ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः

2.3.32

ते चापि पौरा नृपतेर् वचस् तच्छ्रुत्वा तदा लाभम् इवेष्टम् आप्य ।
नरेन्द्रम् आमन्त्र्य गृहाणि गत्वा देवान् समानर्चुर् अतीव हृष्टाः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc