भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.38

2.38.1

रामायण, अयोध्याकाण्ड, 38
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् ।
कौसल्या पुत्रशोकार्ता तम् उवाच महीपतिम्

2.38.2

राघवो नरशार्दूल विषम् उप्त्वा द्विजिह्ववत् ।
विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी

2.38.3

विवास्य रामं सुभगा लब्धकामा समाहिता ।
त्रासयिष्यति मां भूयो दुष्टाहिर् इव वेश्मनि

2.38.4

अथ स्म नगरे रामश् चरन् भैक्षं गृहे वसेत् ।
कामकारो वरं दातुम् अपि दासं ममात्मजम्

2.38.5

पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः ।
प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना

2.38.6

गजराजगतिर् वीरो महाबाहुर् धनुर्धरः ।
वनम् आविशते नूनं सभार्यः सहलक्ष्मणः

2.38.7

वने त्व् अदृष्टदुःखानां कैकेय्यानुमते त्वया ।
त्यक्तानां वनवासाय का न्व् अवस्था भविष्यति

2.38.8

ते रत्नहीनास् तरुणाः फलकाले विवासिताः ।
कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः

2.38.9

अपीदानीं स कालः स्यान् मम शोकक्षयः शिवः ।
सभार्यं यत् सह भ्रात्रा पश्येयम् इह राघवम्

2.38.10

श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति ।
यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी

2.38.11

कदा प्रेक्ष्य नरव्याघ्राव् अरण्यात् पुनरागतौ ।
नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि

2.38.12

कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ।
पुरस्कृत्य रथे सीतां वृषभो गोवधूम् इव

2.38.13

कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।
लाजैर् अवकरिष्यन्ति प्रविशन्ताव् अरिंदमौ

2.38.14

कदा सुमनसः कन्या द्विजातीनां फलानि च ।
प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्

2.38.15

कदा परिणतो बुद्ध्या वयसा चामरप्रभः ।
अभ्युपैष्यति धर्मज्ञस् त्रिवर्ष इव मां ललन्

2.38.16

निःसंशयं मया मन्ये पुरा वीर कदर्यया ।
पातु कामेषु वत्सेषु मात्ःणां शातिताः स्तनाः

2.38.17

साहं गौर् इव सिंहेन विवत्सा वत्सला कृता ।
कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर् बलात्

2.38.18

न हि तावद् गुणैर् जुष्टं सर्वशास्त्रविशारदम् ।
एकपुत्रा विना पुत्रम् अहं जीवितुम् उत्सहे

2.38.19

न हि मे जीविते किंचित् सामर्थ्यम् इह कल्प्यते ।
अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम्

2.38.20

अयं हि मां दीपयते समुत्थितस् तनूजशोकप्रभवो हुताशनः ।
महीम् इमां रश्मिभिर् उत्तमप्रभो यथा निदाघे भगवान् दिवाकरः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc