भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.37

2.37.1

रामायण, अयोध्याकाण्ड, 37
यावत् तु निर्यतस् तस्य रजोरूपम् अदृश्यत ।
नैवेक्ष्वाकुवरस् तावत् संजहारात्मचक्षुषी

2.37.2

यावद् राजा प्रियं पुत्रं पश्यत्य् अत्यन्तधार्मिकम् ।
तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने

2.37.3

न पश्यति रजो ऽप्य् अस्य यदा रामस्य भूमिपः ।
तदार्तश् च विषण्णश् च पपात धरणीतले

2.37.4

तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अङ्गना ।
वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया

2.37.5

तां नयेन च सम्पन्नो धर्मेण विनयेन च ।
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः

2.37.6

कैकेयि मा ममाङ्गानि स्प्राक्षीस् त्वं दुष्टचारिणी ।
न हि त्वां द्रष्टुम् इच्छामि न भार्या न च बान्धवी

2.37.7

ये च त्वाम् उपजीवन्ति नाहं तेषां न ते मम ।
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्य् अहम्

2.37.8

अगृह्णां यच् च ते पाणिम् अग्निं पर्यणयं च यत् ।
अनुजानामि तत् सर्वम् अस्मिंल् लोके परत्र च

2.37.9

भरतश् चेत् प्रतीतः स्याद् राज्यं प्राप्येदम् अव्ययम् ।
यन् मे स दद्यात् पित्रर्थं मा मा तद् दत्तम् आगमत्

2.37.10

अथ रेणुसमुद्ध्वस्तं तम् उत्थाप्य नराधिपम् ।
न्यवर्तत तदा देवी कौसल्या शोककर्शिता

2.37.11

हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निम् इव पाणिना ।
अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम्

2.37.12

निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु ।
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा

2.37.13

विललाप च दुःखार्तः प्रियं पुत्रम् अनुस्मरन् ।
नगरान्तम् अनुप्राप्तं बुद्ध्वा पुत्रम् अथाब्रवीत्

2.37.14

वाहनानां च मुख्यानां वहतां तं ममात्मजम् ।
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते

2.37.15

स नूनं क्वचिद् एवाद्य वृक्षमूलम् उपाश्रितः ।
काष्ठं वा यदि वाश्मानम् उपधाय शयिष्यते

2.37.16

उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः ।
विनिःश्वसन् प्रस्रवणात् करेणूनाम् इवर्षभः

2.37.17

द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः ।
रामम् उत्थाय गच्छन्तं लोकनाथम् अनाथवत्

2.37.18

सकामा भव कैकेयि विधवा राज्यम् आवस ।
न हि तं पुरुषव्याघ्रं विना जीवितुम् उत्सहे

2.37.19

इत्य् एवं विलपन् राजा जनौघेनाभिसंवृतः ।
अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम्

2.37.20

शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् ।
क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्

2.37.21

ताम् अवेक्ष्य पुरीं सर्वां रामम् एवानुचिन्तयन् ।
विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम्

2.37.22

महाह्रदम् इवाक्षोभ्यं सुपर्णेन हृतोरगम् ।
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च

2.37.23

कौसल्याया गृहं शीघ्रं राममातुर् नयन्तु माम् ।
इति ब्रुवन्तं राजानम् अनयन् द्वारदर्शिनः

2.37.24

ततस् तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।
अधिरुह्यापि शयनं बभूव लुलितं मनः

2.37.25

तच् च दृष्ट्वा महाराजो भुजम् उद्यम्य वीर्यवान् ।
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम्

2.37.26

सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ।
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनर् आगतम्

2.37.27

न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश ।
रामं मे ऽनुगता दृष्टिर् अद्यापि न निवर्तते

2.37.28

तं रामम् एवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् ।
उपोपविश्याधिकम् आर्तरूपा विनिःश्वसन्ती विललाप कृच्छ्रम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc