भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.36

2.36.1

रामायण, अयोध्याकाण्ड, 36
तस्मिंस् तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ ।
आर्तशब्दो हि संजज्ञे स्त्रीणाम् अन्तःपुरे महान्

2.36.2

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ।
यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति

2.36.3

न क्रुध्यत्य् अभिशस्तो ऽपि क्रोधनीयानि वर्जयन् ।
क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति

2.36.4

कौसल्यायां महातेजा यथा मातरि वर्तते ।
तथा यो वर्तते ऽस्मासु महात्मा क्व नु गच्छति

2.36.5

कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् ।
परित्राता जनस्यास्य जगतः क्व नु गच्छति

2.36.6

अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम् ।
धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति

2.36.7

इति सर्वा महिष्यस् ता विवत्सा इव धेनवः ।
रुरुदुश् चैव दुःखार्ताः सस्वरं च विचुक्रुशुः

2.36.8

स तम् अन्तःपुरे घोरम् आर्तशब्दं महीपतिः ।
पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः

2.36.9

नाग्निहोत्राण्य् अहूयन्त सूर्यश् चान्तरधीयत ।
व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्

2.36.10

त्रिशङ्कुर् लोहिताङ्गश् च बृहस्पतिबुधाव् अपि ।
दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः

2.36.11

नक्षत्राणि गतार्चींषि ग्रहाश् च गततेजसः ।
विशाखाश् च सधूमाश् च नभसि प्रचकाशिरे

2.36.12

अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् ।
आहारे वा विहारे वा न कश्चिद् अकरोन् मनः

2.36.13

बाष्पपर्याकुलमुखो राजमार्गगतो जनः ।
न हृष्टो लक्ष्यते कश्चित् सर्वः शोकपरायणः

2.36.14

न वाति पवनः शीतो न शशी सौम्यदर्शनः ।
न सूर्यस् तपते लोकं सर्वं पर्याकुलं जगत्

2.36.15

अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस् तथा ।
सर्वे सर्वं परित्यज्य रामम् एवान्वचिन्तयन्

2.36.16

ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः ।
शोकभारेण चाक्रान्ताः शयनं न जहुस् तदा

2.36.17

ततस् त्व् अयोध्या रहिता महात्मना पुरंदरेणेव मही सपर्वता ।
चचाल घोरं भयभारपीडिता सनागयोधाश्वगणा ननाद च

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc