रामायण (दक्षिणी पाठ) · अध्याय 2.35
रामायण, अयोध्याकाण्ड, 35
अथ रामश् च सीता च लक्ष्मणश् च कृताञ्जलिः ।
उपसंगृह्य राजानं चक्रुर् दीनाः प्रदक्षिणम्
तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह ।
राघवः शोकसंमूढो जननीम् अभ्यवादयत्
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् ।
अथ मातुः सुमित्राया जग्राह चरणौ पुनः
तं वन्दमानं रुदती माता सौमित्रिम् अब्रवीत् ।
हितकामा महाबाहुं मूर्ध्न्य् उपाघ्राय लक्ष्मणम्
सृष्टस् त्वं वनवासाय स्वनुरक्तः सुहृज्जने ।
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति
व्यसनी वा समृद्धो वा गतिर् एष तवानघ ।
एष लोके सतां धर्मो यज् ज्येष्ठवशगो भवेत्
इदं हि वृत्तम् उचितं कुलस्यास्य सनातनम् ।
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।
अयोध्याम् अटवीं विद्धि गच्छ तात यथासुखम्
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर् वाक्यम् अब्रवीत् ।
विनीतो विनयज्ञश् च मातलिर् वासवं यथा
रथम् आरोह भद्रं ते राजपुत्र महायशः ।
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।
तान्य् उपक्रमितव्यानि यानि देव्यासि चोदितः
तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा ।
आरुरोह वरारोहा कृत्वालंकारम् आत्मनः
तथैवायुधजातानि भ्रातृभ्यां कवचानि च ।
रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत्
सीतातृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् ।
सुमन्त्रः संमतान् अश्वान् वायुवेगसमाञ् जवे
प्रयाते तु महारण्यं चिररात्राय राघवे ।
बभूव नगरे मूर्छा बलमूर्छा जनस्य च
तत् समाकुलसंभ्रान्तं मत्तसंकुपितद्विपम् ।
हयशिञ्जितनिर्घोषं पुरम् आसीन् महास्वनम्
ततः सबालवृद्धा सा पुरी परमपीडिता ।
रामम् एवाभिदुद्राव घर्मार्तः सलिलं यथा
पार्श्वतः पृष्ठतश् चापि लम्बमानास् तदुन्मुखाः ।
बाष्पपूर्णमुखाः सर्वे तम् ऊचुर् भृशदुःखिताः
संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः ।
मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति
आयसं हृदयं नूनं राममातुर् असंशयम् ।
यद् देवगर्भप्रतिमे वनं याति न भिद्यते
कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।
न जहाति रता धर्मे मेरुम् अर्कप्रभा यथा
अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम् ।
भ्रातरं देवसंकाशं यस् त्वं परिचरिष्यसि
महत्य् एषा हि ते सिद्धिर् एष चाभ्युदयो महान् ।
एष स्वर्गस्य मार्गश् च यद् एनम् अनुगच्छसि ।
एवं वदन्तस् ते सोढुं न शेकुर् बाष्पम् आगतम् ॥ रम्स्_2,35.23* ॥
अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीनचेतनः ।
निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्
शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः ।
यथा नादः करेणूनां बद्धे महति कुञ्जरे
पिता च राजा काकुत्स्थः श्रीमान् सन्नस् तदा बभौ ।
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः ।
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्
हा रामेति जनाः केचिद् राममातेति चापरे ।
अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन्
अन्वीक्षमाणो रामस् तु विषण्णं भ्रान्तचेतसम् ।
राजानं मातरं चैव ददर्शानुगतौ पथि ।
धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत ॥ रम्स्_2,35.29* ॥
पदातिनौ च यानार्हाव् अदुःखार्हौ सुखोचितौ ।
दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्
न हि तत् पुरुषव्याघ्रो दुःखदं दर्शनं पितुः ।
मातुश् च सहितुं शक्तस् तोत्रार्दित इव द्विपः
तथा रुदन्तीं कौसल्यां रथं तम् अनुधावतीम् ।
क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च ।
असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् ॥ रम्स्_2,35.32* ॥
तिष्ठेति राजा चुक्रोश याहि याहीति राघवः ।
सुमन्त्रस्य बभूवात्मा चक्रयोर् इव चान्तरा
नाश्रौषम् इति राजानम् उपालब्धो ऽपि वक्ष्यसि ।
चिरं दुःखस्य पापिष्ठम् इति रामस् तम् अब्रवीत्
रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तं जनम् ।
व्रजतो ऽपि हयाञ् शीघ्रं चोदयामास सारथिः
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् ।
मनसाप्य् अश्रुवेगैश् च न न्यवर्तत मानुषम्
यम् इच्छेत् पुनर् आयान्तं नैनं दूरम् अनुव्रजेत् ।
इत्य् अमात्या महाराजम् ऊचुर् दशरथं वचः
तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः ।
निशम्य राजा कृपणः सभार्यो व्यवस्थितस् तं सुतम् ईक्षमाणः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0