भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.34

2.34.1

रामायण, अयोध्याकाण्ड, 34
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् ।
समीक्ष्य सह भार्याभी राजा विगतचेतनः

2.34.2

नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् ।
न चैनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः

2.34.3

स मुहूर्तम् इवासंज्ञो दुःखितश् च महीपतिः ।
विललाप महाबाहू रामम् एवानुचिन्तयन्

2.34.4

मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः ।
प्राणिनो हिंसिता वापि तस्माद् इदम् उपस्थितम्

2.34.5

न त्व् एवानागते काले देहाच् च्यवति जीवितम् ।
कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते

2.34.6

यो ऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् ।
विहाय वसने सूक्ष्मे तापसाच्छादम् आत्मजम्

2.34.7

एकस्याः खलु कैकेय्याः कृते ऽयं क्लिश्यते जनः ।
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्व् इमाम्

2.34.8

एवम् उक्त्वा तु वचनं बाष्पेण पिहितेन्द्रियः ।
रामेति सकृद् एवोक्त्वा व्याहर्तुं न शशाक ह

2.34.9

संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः ।
नेत्राभ्याम् अश्रुपूर्णाभ्यां सुमन्त्रम् इदम् अब्रवीत्

2.34.10

औपवाह्यं रथं युक्त्वा त्वम् आयाहि हयोत्तमैः ।
प्रापयैनं महाभागम् इतो जनपदात् परम्

2.34.11

एवं मन्ये गुणवतां गुणानां फलम् उच्यते ।
पित्रा मात्रा च यत् साधुर् वीरो निर्वास्यते वनम्

2.34.12

राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्रविक्रमः ।
योजयित्वाययौ तत्र रथम् अश्वैर् अलंकृतम्

2.34.13

तं रथं राजपुत्राय सूतः कनकभूषितम् ।
आचचक्षे ऽञ्जलिं कृत्वा युक्तं परमवाजिभिः

2.34.14

राजा सत्वरम् आहूय व्यापृतं वित्तसंचये ।
उवाच देशकालज्ञो निश्चितं सर्वतः शुचि

2.34.15

वासांसि च महार्हाणि भूषणानि वराणि च ।
वर्षाण्य् एतानि संख्याय वैदेह्याः क्षिप्रम् आनय

2.34.16

नरेन्द्रेणैवम् उक्तस् तु गत्वा कोशगृहं ततः ।
प्रायच्छत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत्

2.34.17

सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।
भूषयामास गात्राणि तैर् विचित्रैर् विभूषणैः

2.34.18

व्यराजयत वैदेही वेश्म तत् सुविभूषिता ।
उद्यतो ऽंशुमतः काले खं प्रभेव विवस्वतः

2.34.19

तां भुजाभ्यां परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् ।
अनाचरन्तीं कृपणं मूर्ध्न्य् उपाघ्राय मैथिलीम्

2.34.20

असत्यः सर्वलोके ऽस्मिन् सततं सत्कृताः प्रियैः ।
भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः

2.34.21

स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम ।
तव दैवतम् अस्त्व् एष निर्धनः सधनो ऽपि वा

2.34.22

विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् ।
कृताञ्जलिर् उवाचेदं श्वश्रूम् अभिमुखे स्थिता

2.34.23

करिष्ये सर्वम् एवाहम् आर्या यद् अनुशास्ति माम् ।
अभिज्ञास्मि यथा भर्तुर् वर्तितव्यं श्रुतं च मे

2.34.24

न माम् असज्जनेनार्या समानयितुम् अर्हति ।
धर्माद् विचलितुं नाहम् अलं चन्द्राद् इव प्रभा

2.34.25

नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः ।
नापतिः सुखम् एधते या स्याद् अपि शतात्मजा

2.34.26

मितं ददाति हि पिता मितं माता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत्

2.34.27

साहम् एवंगता श्रेष्ठा श्रुतधर्मपरावरा ।
आर्ये किम् अवमन्येयं स्त्रीणां भर्ता हि दैवतम्

2.34.28

सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् ।
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्

2.34.29

तां प्राञ्जलिर् अभिक्रम्य मातृमध्ये ऽतिसत्कृताम् ।
रामः परमधर्मज्ञो मातरं वाक्यम् अब्रवीत्

2.34.30

अम्ब मा दुःखिता भूस् त्वं पश्य त्वं पितरं मम ।
क्षयो हि वनवासस्य क्षिप्रम् एव भविष्यति

2.34.31

सुप्तायास् ते गमिष्यन्ति नववर्षाणि पञ्च च ।
सा समग्रम् इह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्

2.34.32

एतावद् अभिनीतार्थम् उक्त्वा स जननीं वचः ।
त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः

2.34.33

ताश् चापि स तथैवार्ता मात्ःन् दशरथात्मजः ।
धर्मयुक्तम् इदं वाक्यं निजगाद कृताञ्जलिः

2.34.34

संवासात् परुषं किंचिद् अज्ञानाद् वापि यत् कृतम् ।
तन् मे समनुजानीत सर्वाश् चामन्त्रयामि वः

2.34.35

जज्ञे ऽथ तासां संनादः क्रौञ्चीनाम् इव निःस्वनः ।
मानवेन्द्रस्य भार्याणाम् एवं वदति राघवे

2.34.36

मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत् पुरा ।
विलपितपरिदेवनाकुलं व्यसनगतं तद् अभूत् सुदुःखितम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc