रामायण (दक्षिणी पाठ) · अध्याय 2.33
रामायण, अयोध्याकाण्ड, 33
महामात्रवचः श्रुत्वा रामो दशरथं तदा ।
अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत्
त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः ।
किं कार्यम् अनुयात्रेण त्यक्तसङ्गस्य सर्वतः
यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः ।
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते ।
सर्वाण्य् एवानुजानामि चीराण्य् एवानयन्तु मे
खनित्रपिटके चोभे ममानयत गच्छतः ।
चतुर्दश वने वासं वर्षाणि वसतो मम
अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् ।
उवाच परिधत्स्वेति जनौघे निरपत्रपा
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते ।
सूक्ष्मवस्त्रम् अवक्षिप्य मुनिवस्त्राण्य् अवस्त ह
लक्ष्मणश् चापि तत्रैव विहाय वसने शुभे ।
तापसाच् छादने चैव जग्राह पितुर् अग्रतः
अथात्मपरिधानार्थं सीता कौशेयवासिनी ।
समीक्ष्य चीरं संत्रस्ता पृषती वागुराम् इव
सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः ।
गन्धर्वराजप्रतिमं भर्तारम् इदम् अब्रवीत् ।
कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ॥ रम्स्_2,33.10* ॥
कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना ।
तस्थौ ह्य् अकुशला तत्र व्रीडिता जनकात्मजा
तस्यास् तत् क्षिप्रम् आगम्य रामो धर्मभृतां वरः ।
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्
तस्यां चीरं वसानायां नाथवत्याम् अनाथवत् ।
प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्व् इति
स निःश्वस्योष्णम् ऐक्ष्वाकस् तां भार्याम् इदम् अब्रवीत् ।
कैकेयि कुशचीरेण न सीता गन्तुम् अर्हति
ननु पर्याप्तम् एतत् ते पापे रामविवासनम् ।
किम् एभिः कृपणैर् भूयः पातकैर् अपि ते कृतैः
एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम् ।
अवाक्शिरसम् आसीनम् इदं वचनम् अब्रवीत्
इयं धार्मिक कौसल्या मम माता यशस्विनी ।
वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते
मया विहीनां वरद प्रपन्नां शोकसागरम् ।
अदृष्टपूर्वव्यसनां भूयः संमन्तुम् अर्हसि
इमां महेन्द्रोपमजातगर्भिणीं तथा विधातुं जननीं ममार्हसि ।
यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0