रामायण (दक्षिणी पाठ) · अध्याय 2.32
रामायण, अयोध्याकाण्ड, 32
ततः सुमन्त्रम् ऐक्ष्वाकः पीडितो ऽत्र प्रतिज्ञया ।
सबाष्पम् अतिनिःश्वस्य जगादेदं पुनः पुनः
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः ।
राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्
रूपाजीवाश्च शालिन्यो वणिजश् च महाधनाः ।
शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः
ये चैनम् उपजीवन्ति रमते यैश् च वीर्यतः ।
तेषां बहुविधं दत्त्वा तान् अप्य् अत्र नियोजय
निघ्नन् मृगान् कुञ्जरांश् च पिबंश् चारण्यकं मधु ।
नदीश् च विविधाः पश्यन् न राज्यं संस्मरिष्यति
धान्यकोशश् च यः कश्चिद् धनकोशश् च मामकः ।
तौ रामम् अनुगच्छेतां वसन्तं निर्जने वने
यजन् पुण्येषु देशेषु विसृजंश् चाप्तदक्षिणाः ।
ऋषिभिश् च समागम्य प्रवत्स्यति सुखं वने
भरतश् च महाबाहुर् अयोध्यां पालयिष्यति ।
सर्वकामैः पुनः श्रीमान् रामः संसाध्यताम् इति
एवं ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् ।
मुखं चाप्य् अगमच्छोषं स्वरश् चापि न्यरुध्यत
सा विषण्णा च संत्रस्ता कैकेयी वाक्यम् अब्रवीत् ।
राज्यं गतजनं साधो पीतमण्डां सुराम् इव ।
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ रम्स्_2,32.10* ॥
कैकेय्यां मुक्तलज्जायां वदन्त्याम् अतिदारुणम् ।
राजा दशरथो वाक्यम् उवाचायतलोचनाम् ।
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते ॥ रम्स्_2,32.11* ॥
कैकेयी द्विगुणं क्रुद्धा राजानम् इदम् अब्रवीत् ।
तवैव वंशे सगरो ज्येष्ठं पुत्रम् उपारुधत् ।
असमञ्ज इति ख्यातं तथायं गन्तुम् अर्हति ॥ रम्स्_2,32.12* ॥
एवम् उक्तो धिग् इत्य् एव राजा दशरथो ऽब्रवीत् ।
व्रीडितश् च जनः सर्वः सा च तन् नावबुध्यत
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।
शुचिर् बहुमतो राज्ञः कैकेयीम् इदम् अब्रवीत्
असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् ।
सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानम् अब्रुवन् ।
असमञ्जं वृणीष्वैकम् अस्मान् वा राष्ट्रवर्धन
तान् उवाच ततो राजा किंनिमित्तम् इदं भयम् ।
ताश् चापि राज्ञा संपृष्टा वाक्यं प्रकृतयो ऽब्रुवन्
क्रीडितस् त्व् एष नः पुत्रान् बालान् उद्भ्रान्तचेतनः ।
सरय्वां प्रक्षिपन् मौर्ख्याद् अतुलां प्रीतिम् अश्नुते
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप ।
तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया
इत्य् एवम् अत्यजद् राजा सगरो वै सुधार्मिकः ।
रामः किम् अकरोत् पापं येनैवम् उपरुध्यते
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।
शोकोपहतया वाचा कैकेयीम् इदम् अब्रवीत्
अनुव्रजिष्याम्य् अहम् अद्य रामं राज्यं परित्यज्य सुखं धनं च ।
सहैव राज्ञा भरतेन च त्वं यथा सुखं भुङ्क्ष्व चिराय राज्यम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0