रामायण (दक्षिणी पाठ) · अध्याय 2.31
रामायण, अयोध्याकाण्ड, 31
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः ।
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह
आलोक्य तु महाप्राज्ञः परमाकुलचेतसं ।
रामम् एवानुशोचन्तं सूतः प्राञ्जलिर् आसदत्
अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः ।
ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्
स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः ।
सर्वान् सुहृद आपृच्छ्य त्वाम् इदानीं दिदृक्षते
गमिष्यति महारण्यं तं पश्य जगतीपते ।
वृतं राजगुणैः सर्वैर् आदित्यम् इव रश्मिभिः
स सत्यवादी धर्मात्मा गाम्भीर्यात् सागरोपमः ।
आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्
सुमन्त्रानय मे दारान् ये केचिद् इह मामकाः ।
दारैः परिवृतः सर्वैर् द्रष्टुम् इच्छामि राघवम्
सो ऽन्तःपुरम् अतीत्यैव स्त्रियस् ता वाक्यम् अब्रवीत् ।
आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम्
एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया ।
प्रचक्रमुस् तद् भवनं भर्तुर् आज्ञाय शासनम्
अर्धसप्तशतास् तास् तु प्रमदास् ताम्रलोचनाः ।
कौसल्यां परिवार्याथ शनैर् जग्मुर् धृतव्रताः
आगतेषु च दारेषु समवेक्ष्य महीपतिः ।
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्
स सूतो रामम् आदाय लक्ष्मणं मैथिलीं तदा ।
जगामाभिमुखस् तूर्णं सकाशं जगतीपतेः
स राजा पुत्रम् आयान्तं दृष्ट्वा दूरात् कृताञ्जलिम् ।
उत्पपातासनात् तूर्णम् आर्तः स्त्रीजनसंवृतः
सो ऽभिदुद्राव वेगेन रामं दृष्ट्वा विशांपतिः ।
तम् असंप्राप्य दुःखार्तः पपात भुवि मूर्छितः
तं रामो ऽभ्यपतत् क्षिप्रं लक्ष्मणश् च महारथः ।
विसंज्ञम् इव दुःखेन सशोकं नृपतिं तदा
स्त्रीसहस्रनिनादश् च संजज्ञे राजवेश्मनि ।
हा हा रामेति सहसा भूषणध्वनिमूर्छितः
तं परिष्वज्य बाहुभ्यां ताव् उभौ रामलक्ष्मणौ ।
पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्
अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् ।
उवाच प्राञ्जलिर् भूत्वा शोकार्णवपरिप्लुतम्
आपृच्छे त्वां महाराज सर्वेषाम् ईश्वरो ऽसि नः ।
प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्
लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।
कारणैर् बहुभिस् तथ्यैर् वार्यमाणौ न चेच्छतः
अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद ।
लक्ष्मणं मां च सीतां च प्रजापतिर् इव प्रजाः
प्रतीक्षमाणम् अव्यग्रम् अनुज्ञां जगतीपतेः ।
उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्
अहं राघव कैकेय्या वरदानेन मोहितः ।
अयोध्यायास् त्वम् एवाद्य भव राजा निगृह्य माम्
एवम् उक्तो नृपतिना रामो धर्मभृतां वरः ।
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः
भवान् वर्षसहस्राय पृथिव्या नृपते पतिः ।
अहं त्व् अरण्ये वत्स्यामि न मे कार्यं त्वयानृतम्
श्रेयसे वृद्धये तात पुनरागमनाय च ।
गच्छस्वारिष्टम् अव्यग्रः पन्थानम् अकुतोभयम्
अद्य त्व् इदानीं रजनीं पुत्र मा गच्छ सर्वथा ।
मातरं मां च संपश्यन् वसेमाम् अद्य शर्वरीम् ।
तर्पितः सर्वकामैस् त्वं श्वःकाले साधयिष्यसि ॥ रम्स्_2,31.27* ॥
अथ रामस् तथा श्रुत्वा पितुर् आर्तस्य भाषितम् ।
लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत्
प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति ।
अपक्रमणम् एवातः सर्वकामैर् अहं वृणे
इयं सराष्ट्रा सजना धनधान्यसमाकुला ।
मया विसृष्टा वसुधा भरताय प्रदीयताम्
अपगच्छतु ते दुःखं मा भूर् बाष्पपरिप्लुतः ।
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः
नैवाहं राज्यम् इच्छामि न सुखं न च मैथिलीम् ।
त्वाम् अहं सत्यम् इच्छामि नानृतं पुरुषर्षभ
पुरं च राष्ट्रं च मही च केवला मया निसृष्टा भरताय दीयताम् ।
अहं निदेशं भवतो ऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्
मया निसृष्टां भरतो महीम् इमां सशैलखण्डां सपुरां सकाननाम् ।
शिवां सुसीमाम् अनुशास्तु केवलं त्वया यद् उक्तं नृपते यथास्तु तत्
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये ।
यथा निदेशे तव शिष्टसंमते व्यपैतु दुःखं तव मत्कृते ऽनघ
तद् अद्य नैवानघ राज्यम् अव्ययं न सर्वकामान् न सुखं न मैथिलीम् ।
न जीवितं त्वाम् अनृतेन योजयन् वृणीय सत्यं व्रतम् अस्तु ते तथा
फलानि मूलानि च भक्षयन् वने गिरींश् च पश्यन् सरितः सरांसि च ।
वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0