रामायण (दक्षिणी पाठ) · अध्याय 2.30
रामायण, अयोध्याकाण्ड, 30
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ
ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे ।
मालादामभिर् आसक्ते सीतया समलंकृते
ततः प्रासादहर्म्याणि विमानशिखराणि च ।
अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत्
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः ।
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम्
पदातिं वर्जितच्छत्त्रं रामं दृष्ट्वा तदा जनाः ।
ऊचुर् बहुविधा वाचः शोकोपहतचेतसः
यं यान्तम् अनुयाति स्म चतुरङ्गबलं महत् ।
तम् एकं सीतया सार्धम् अनुयाति स्म लक्ष्मणः
ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः ।
नेच्छत्य् एवानृतं कर्तुं पितरं धर्मगौरवात्
या न शक्या पुरा द्रष्टुं भूतैर् आकाशगैर् अपि ।
ताम् अद्य सीतां पश्यन्ति राजमार्गगता जनाः
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम् ।
वर्षम् उष्णं च शीतं च नेष्यत्य् आशु विवर्णताम्
अद्य नूनं दशरथः सत्त्वम् आविश्य भाषते ।
न हि राजा प्रियं पुत्रं विवासयितुम् अर्हति
निर्गुणस्यापि पुत्रस्य कथं स्याद् विप्रवासनम् ।
किं पुनर् यस्य लोको ऽयं जितो वृत्तेन केवलम्
आनृशंस्यम् अनुक्रोशः श्रुतं शीलं दमः शमः ।
राघवं शोभयन्त्य् एते षड्गुणाः पुरुषोत्तमम्
तस्मात् तस्योपघातेन प्रजाः परमपीडिताः ।
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्
पीडया पीडितं सर्वं जगद् अस्य जगत्पतेः ।
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः ।
गच्छन्तम् अनुगच्छामो येन गच्छति राघवः
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
एकदुःखसुखा रामम् अनुगच्छाम धार्मिकम्
समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।
उपात्तधनधान्यानि हृतसाराणि सर्वशः
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः ।
अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्
वनं नगरम् एवास्तु येन गच्छति राघवः ।
अस्माभिश् च परित्यक्तं पुरं संपद्यतां वनम्
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः ।
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च
इत्य् एवं विविधा वाचो नानाजनसमीरिताः ।
शुश्राव रामः श्रुत्वा च न विचक्रे ऽस्य मानसम्
प्रतीक्षमाणो ऽभिजनं तदार्तम् अनार्तरूपः प्रहसन्न् इवाथ ।
जगाम रामः पितरं दिदृक्षुः पितुर् निदेशं विधिवच् चिकीर्षुः
तत् पूर्वम् ऐक्ष्वाकसुतो महात्मा रामो गमिष्यन् वनम् आर्तरूपम् ।
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर् महात्मा प्रतिहारणार्थम्
पितुर् निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः ।
स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् निवेदयस्वागमनं नृपाय मे
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0