भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.29

2.29.1

रामायण, अयोध्याकाण्ड, 29
ततः शासनम् आज्ञाय भ्रातुः शुभतरं प्रियम् ।
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम्

2.29.2

तं विप्रम् अग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत् ।
सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः

2.29.3

ततः संध्याम् उपास्याशु गत्वा सौमित्रिणा सह ।
जुष्टं तत् प्राविशल् लक्ष्म्या रम्यं रामनिवेशनम्

2.29.4

तम् आगतं वेदविदं प्राञ्जलिः सीतया सह ।
सुयज्ञम् अभिचक्राम राघवो ऽग्निम् इवार्चितम्

2.29.5

जातरूपमयैर् मुख्यैर् अङ्गदैः कुण्डलैः शुभैः ।
सहेमसूत्रैर् मणिभिः केयूरैर् वलयैर् अपि

2.29.6

अन्यैश् च रत्नैर् बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
सुयज्ञं स तदोवाच रामः सीताप्रचोदितः

2.29.7

हारं च हेमसूत्रं च भार्यायै सौम्य हारय ।
रशनां चाधुना सीता दातुम् इच्छति ते सखे

2.29.8

पर्यङ्कम् अग्र्यास्तरणं नानारत्नविभूषितम् ।
तम् अपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि

2.29.9

नागः शत्रुंजयो नाम मातुलो यं ददौ मम ।
तं ते गजसहस्रेण ददामि द्विजपुंगव

2.29.10

इत्य् उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।
रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः

2.29.11

अथ भ्रातरम् अव्यग्रं प्रियं रामः प्रियंवदः ।
सौमित्रिं तम् उवाचेदं ब्रह्मेव त्रिदशेश्वरम्

2.29.12

अगस्त्यं कौशिकं चैव ताव् उभौ ब्राह्मणोत्तमौ ।
अर्चयाहूय सौमित्रे रत्नैः सस्यम् इवाम्बुभिः

2.29.13

कौसल्यां च य आशीर्भिर् भक्तः पर्युपतिष्ठति ।
आचार्यस् तैत्तिरीयाणाम् अभिरूपश् च वेदवित्

2.29.14

तस्य यानं च दासीश् च सौमित्रे संप्रदापय ।
कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः

2.29.15

सूतश् चित्ररथश् चार्यः सचिवः सुचिरोषितः ।
तोषयैनं महार्हैश् च रत्नैर् वस्त्रैर् धनैस् तथा

2.29.16

शालिवाहसहस्रं च द्वे शते भद्रकांस् तथा ।
व्यञ्जनार्थं च सौमित्रे गोसहस्रम् उपाकुरु

2.29.17

ततः स पुरुषव्याघ्रस् तद् धनं लक्ष्मणः स्वयम् ।
यथोक्तं ब्राह्मणेन्द्राणाम् अददाद् धनदो यथा

2.29.18

अथाब्रवीद् बाष्पकलांस् तिष्ठतश् चोपजीविनः ।
सम्प्रदाय बहु द्रव्यम् एकैकस्योपजीविनः

2.29.19

लक्ष्मणस्य च यद् वेश्म गृहं च यद् इदं मम ।
अशून्यं कार्यम् एकैकं यावदागमनं मम

2.29.21

इत्य् उक्त्वा दुःखितं सर्वं जनं तम् उपजीविनम् ।
उवाचेदं धनाध्यक्षं धनम् आनीयताम् इति ।
ततो ऽस्य धनम् आजह्रुः सर्वम् एवोपजीविनः ॥ रम्स्_2,29.20* ॥
ततः स पुरुषव्याघ्रस् तद् धनं सहलक्ष्मणः ।
द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ऽभ्यदापयत्

2.29.22

तत्रासीत् पिङ्गलो गार्ग्यस् त्रिजटो नाम वै द्विजः ।
आ पञ्चमायाः कक्ष्याया नैनं कश्चिद् अवारयत्

2.29.25

स राजपुत्रम् आसाद्य त्रिजटो वाक्यम् अब्रवीत् ।
निर्धनो बहुपुत्रो ऽस्मि राजपुत्र महायशः ।
उञ्छवृत्तिर् वने नित्यं प्रत्यवेक्षस्व माम् इति ॥ रम्स्_2,29.23* ॥
तम् उवाच ततो रामः परिहाससमन्वितम् ।
गवां सहस्रम् अप्य् एकं न तु विश्राणितं मया ।
परिक्षिपसि दण्डेन यावत् तावद् अवाप्स्यसि ॥ रम्स्_2,29.24* ॥
स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ।
आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः

2.29.26

उवाच च ततो रामस् तं गार्ग्यम् अभिसान्त्वयन् ।
मन्युर् न खलु कर्तव्यः परिहासो ह्य् अयं मम

2.29.27

ततः सभार्यस् त्रिजटो महामुनिर् गवाम् अनीकं प्रतिगृह्य मोदितः ।
यशोबलप्रीतिसुखोपबृंहिणीस् तद् आशिषः प्रत्यवदन् महात्मनः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc