भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.28

2.28.1

रामायण, अयोध्याकाण्ड, 28
ततो ऽब्रवीन् महातेजा रामो लक्ष्मणम् अग्रतः ।
स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम्

2.28.2

मयाद्य सह सौमित्रे त्वयि गच्छति तद् वनम् ।
को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्

2.28.3

अभिवर्षति कामैर् यः पर्जन्यः पृथिवीम् इव ।
स कामपाशपर्यस्तो महातेजा महीपतिः

2.28.4

सा हि राज्यम् इदं प्राप्य नृपस्याश्वपतेः सुता ।
दुःखितानां सपत्नीनां न करिष्यति शोभनम्

2.28.5

एवम् उक्तस् तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्

2.28.6

तवैव तेजसा वीर भरतः पूजयिष्यति ।
कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः

2.28.7

कौसल्या बिभृयाद् आर्या सहस्रम् अपि मद्विधान् ।
यस्याः सहस्रं ग्रामाणां सम्प्राप्तम् उपजीवनम्

2.28.8

धनुर् आदाय सशरं खनित्रपिटकाधरः ।
अग्रतस् ते गमिष्यामि पन्थानम् अनुदर्शयन्

2.28.9

आहरिष्यामि ते नित्यं मूलानि च फलानि च ।
वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम्

2.28.10

भवांस् तु सह वैदेह्या गिरिसानुषु रंस्यते ।
अहं सर्वं करिष्यामि जाग्रतः स्वपतश् च ते

2.28.11

रामस् त्व् अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।
व्रजापृच्छस्व सौमित्रे सर्वम् एव सुहृज्जनम्

2.28.12

ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।
जनकस्य महायज्ञे धनुषी रौद्रदर्शने

2.28.13

अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ ।
आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ

2.28.14

सत्कृत्य निहितं सर्वम् एतद् आचार्यसद्मनि ।
स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण

2.28.15

स सुहृज्जनम् आमन्त्र्य वनवासाय निश्चितः ।
इक्ष्वाकुगुरुम् आमन्त्र्य जग्राहायुधम् उत्तमम्

2.28.16

तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् ।
रामाय दर्शयामास सौमित्रिः सर्वम् आयुधम्

2.28.17

तम् उवाचात्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् ।
काले त्वम् आगतः सौम्य काङ्क्षिते मम लक्ष्मण

2.28.18

अहं प्रदातुम् इच्छामि यद् इदं मामकं धनम् ।
ब्राह्मणेभ्यस् तपस्विभ्यस् त्वया सह परंतप

2.28.19

वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ।
तेषाम् अपि च मे भूयः सर्वेषां चोपजीविनाम्

2.28.20

वसिष्ठपुत्रं तु सुयज्ञम् आर्यं त्वम् आनयाशु प्रवरं द्विजानाम् ।
अभिप्रयास्यामि वनं समस्तान् अभ्यर्च्य शिष्टान् अपरान् द्विजातीन्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc