रामायण (दक्षिणी पाठ) · अध्याय 2.27
रामायण, अयोध्याकाण्ड, 27
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा ।
वनवासनिमित्ताय भर्तारम् इदम् अब्रवीत्
सा तम् उत्तमसंविग्ना सीता विपुलवक्षसम् ।
प्रणयाच् चाभिमानाच् च परिचिक्षेप राघवम्
किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः ।
राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्
अनृतं बललोको ऽयम् अज्ञानाद् यद्धि वक्ष्यति ।
तेजो नास्ति परं रामे तपतीव दिवाकरे
किं हि कृत्वा विषण्णस् त्वं कुतो वा भयम् अस्ति ते ।
यत् परित्यक्तुकामस् त्वं माम् अनन्यपरायणाम्
द्युमत्सेनसुतं वीर सत्यवन्तम् अनुव्रताम् ।
सावित्रीम् इव मां विद्धि त्वम् आत्मवशवर्तिनीम्
न त्व् अहं मनसाप्य् अन्यं द्रष्टास्मि त्वदृते ऽनघ ।
त्वया राघव गच्छेयं यथान्या कुलपांसनी
स्वयं तु भार्यां कौमारीं चिरम् अध्युषितां सतीम् ।
शैलूष इव मां राम परेभ्यो दातुम् इच्छसि
स माम् अनादाय वनं न त्वं प्रस्थातुम् अर्हसि ।
तपो वा यदि वारण्यं स्वर्गो वा स्यात् सह त्वया
न च मे भविता तत्र कश्चित् पथि परिश्रमः ।
पृष्ठतस् तव गच्छन्त्या विहारशयनेष्व् अपि
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः ।
तूलाजिनसमस्पर्शा मार्गे मम सह त्वया
महावातसमुद्धूतं यन् माम् अवकरिष्यति ।
रजो रमण तन् मन्ये परार्ध्यम् इव चन्दनम्
शाद्वलेषु यद् आसिष्ये वनान्ते वनगोचरा ।
कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः
पत्त्रं मूलं फलं यत् त्वम् अल्पं वा यदि वा बहु ।
दास्यसि स्वयम् आहृत्य तन् मे ऽमृतरसोपमम्
न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः ।
आर्तवान्य् उपभुञ्जाना पुष्पाणि च फलानि च
न च तत्र गतः किंचिद् द्रष्टुम् अर्हसि विप्रियम् ।
मत्कृते न च ते शोको न भविष्यामि दुर्भरा
यस् त्वया सह स स्वर्गो निरयो यस् त्वया विना ।
इति जानन् परां प्रीतिं गच्छ राम मया सह
अथ माम् एवम् अव्यग्रां वनं नैव नयिष्यसि ।
विषम् अद्यैव पास्यामि मा विशं द्विषतां वशम्
पश्चाद् अपि हि दुःखेन मम नैवास्ति जीवितम् ।
उज्झितायास् त्वया नाथ तदैव मरणं वरम्
इदं हि सहितुं शोकं मुहूर्तम् अपि नोत्सहे ।
किं पुनर् दशवर्षाणि त्रीणि चैकं च दुःखिता
इति सा शोकसंतप्ता विलप्य करुणं बहु ।
चुक्रोश पतिम् आयस्ता भृशम् आलिङ्ग्य सस्वरम्
सा विद्धा बहुभिर् वाक्यैर् दिग्धैर् इव गजाङ्गना ।
चिरसंनियतं बाष्पं मुमोचाग्निम् इवारणिः
तस्याः स्फटिकसंकाशं वारि संतापसम्भवम् ।
नेत्राभ्यां परिसुस्राव पङ्कजाभ्याम् इवोदकम्
तां परिष्वज्य बाहुभ्यां विसंज्ञाम् इव दुःखिताम् ।
उवाच वचनं रामः परिविश्वासयंस् तदा
न देवि तव दुःखेन स्वर्गम् अप्य् अभिरोचये ।
न हि मे ऽस्ति भयं किंचित् स्वयम्भोर् इव सर्वतः
तव सर्वम् अभिप्रायम् अविज्ञाय शुभानने ।
वासं न रोचये ऽरण्ये शक्तिमान् अपि रक्षणे
यत् सृष्टासि मया सार्धं वनवासाय मैथिलि ।
न विहातुं मया शक्या कीर्तिर् आत्मवता यथा
धर्मस् तु गजनासोरु सद्भिर् आचरितः पुरा ।
तं चाहम् अनुवर्ते ऽद्य यथा सूर्यं सुवर्चला
एष धर्मस् तु सुश्रोणि पितुर् मातुश् च वश्यता ।
अतश् चाज्ञां व्यतिक्रम्य नाहं जीवितुम् उत्सहे
स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः ।
तथा वर्तितुम् इच्छामि स हि धर्मः सनातनः ।
अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥ रम्स्_2,27.30* ॥
ब्राह्मणेभ्यश् च रत्नानि भिक्षुकेभ्यश् च भोजनम् ।
देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम्
अनुकूलं तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः ।
क्षिप्रं प्रमुदिता देवी दातुम् एवोपचक्रमे
ततः प्रहृष्टा परिपूर्णमानसा यशस्विनी भर्तुर् अवेक्ष्य भाषितम् ।
धनानि रत्नानि च दातुम् अङ्गना प्रचक्रमे धर्मभृतां मनस्विनी
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0