रामायण (दक्षिणी पाठ) · अध्याय 2.26
रामायण, अयोध्याकाण्ड, 26
एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता ।
प्रसक्ताश्रुमुखी मन्दम् इदं वचनम् अब्रवीत्
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
गुणान् इत्य् एव तान् विद्धि तव स्नेहपुरस्कृतान्
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया ।
त्वद्वियोगेन मे राम त्यक्तव्यम् इह जीवितम्
न च मां त्वत्समीपस्थाम् अपि शक्नोति राघव ।
सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् ।
कामम् एवंविधं राम त्वया मम विदर्शितम्
अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् ।
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे ।
वनवासकृतोत्साहा नित्यम् एव महाबल
आदेशो वनवासस्य प्राप्तव्यः स मया किल ।
सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा
कृतादेशा भविष्यामि गमिष्यामि सह त्वया ।
कालश् चायं समुत्पन्नः सत्यवाग् भवतु द्विजः
वनवासे हि जानामि दुःखानि बहुधा किल ।
प्राप्यन्ते नियतं वीर पुरुषैर् अकृतात्मभिः
कन्यया च पितुर् गेहे वनवासः श्रुतो मया ।
भिक्षिण्याः साधुवृत्ताया मम मातुर् इहाग्रतः
प्रसादितश् च वै पूर्वं त्वं वै बहुविधं प्रभो ।
गमनं वनवासस्य काङ्क्षितं हि सह त्वया
कृतक्षणाहं भद्रं ते गमनं प्रति राघव ।
वनवासस्य शूरस्य चर्या हि मम रोचते
शुद्धात्मन् प्रेमभावाद् धि भविष्यामि विकल्मषा ।
भर्तारम् अनुगच्छन्ती भर्ता हि मम दैवतम्
प्रेत्यभावे ऽपि कल्याणः संगमो मे सह त्वया ।
श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्
इह लोके च पितृभिर् या स्त्री यस्य महामते ।
अद्भिर् दत्ता स्वधर्मेण प्रेत्यभावे ऽपि तस्य सा
एवम् अस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम् ।
नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ।
नेतुम् अर्हसि काकुत्स्थ समानसुखदुःखिनीम्
यदि मां दुःखिताम् एवं वनं नेतुं न चेच्छसि ।
विषम् अग्निं जलं वाहम् आस्थास्ये मृत्युकारणात्
एवं बहुविधं तं सा याचते गमनं प्रति ।
नानुमेने महाबाहुस् तां नेतुं विजनं वनम्
एवम् उक्ता तु सा चिन्तां मैथिली समुपागता ।
स्नापयन्तीव गाम् उष्णैर् अश्रुभिर् नयनच्युतैः
चिन्तयन्तीं तथा तां तु निवर्तयितुम् आत्मवान् ।
क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्व् असान्त्वयत्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0