रामायण (दक्षिणी पाठ) · अध्याय 2.25
रामायण, अयोध्याकाण्ड, 25
स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ।
निवर्तनार्थे धर्मात्मा वाक्यम् एतद् उवाच ह
सीते महाकुलीनासि धर्मे च निरता सदा ।
इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम्
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले ।
वने दोषा हि बहवो वदतस् तान् निबोध मे
सीते विमुच्यताम् एषा वनवासकृता मतिः ।
बहुदोषं हि कान्तारं वनम् इत्य् अभिधीयते
हितबुद्ध्या खलु वचो मयैतद् अभिधीयते ।
सदा सुखं न जानामि दुःखम् एव सदा वनम्
गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम् ।
सिंहानां निनदा दुःखाः श्रोतुं दुःखम् अतो वनम्
सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले ।
रात्रिषु श्रमखिन्नेन तस्माद् दुःखतरं वनम्
उपवासश् च कर्तव्यो यथाप्राणेन मैथिलि ।
जटाभारश् च कर्तव्यो वल्कलाम्बरधारिणा
अतीव वातस् तिमिरं बुभुक्षा चात्र नित्यशः ।
भयानि च महान्त्य् अत्र ततो दुःखतरं वनम्
सरीसृपाश् च बहवो बहुरूपाश् च भामिनि ।
चरन्ति पृथिवीं दर्पाद् अतो दुःखतरं वनम्
नदीनिलयनाः सर्पा नदीकुटिलगामिनः ।
तिष्ठन्त्य् आवृत्य पन्थानम् अतो दुःखतरं वनम्
पतंगा वृश्चिकाः कीटा दंशाश् च मशकैः सह ।
बाधन्ते नित्यम् अबले सर्वं दुःखम् अतो वनम्
द्रुमाः कण्टकिनश् चैव कुशकाशाश् च भामिनि ।
वने व्याकुलशाखाग्रास् तेन दुःखतरं वनम्
तद् अलं ते वनं गत्वा क्षमं न हि वनं तव ।
विमृशन्न् इह पश्यामि बहुदोषतरं वनम्
वनं तु नेतुं न कृता मतिस् तदा बभूव रामेण यदा महात्मना ।
न तस्य सीता वचनं चकार तत् ततो ऽब्रवीद् रामम् इदं सुदुःखिता
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0