रामायण (दक्षिणी पाठ) · अध्याय 2.24
रामायण, अयोध्याकाण्ड, 24
एवम् उक्ता तु वैदेही प्रियार्हा प्रियवादिनी ।
प्रणयाद् एव संक्रुद्धा भर्तारम् इदम् अब्रवीत्
आर्यपुत्र पिता माता भ्राता पुत्रस् तथा स्नुषा ।
स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यम् उपासते
भर्तुर् भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ ।
अतश् चैवाहम् आदिष्टा वने वस्तव्यम् इत्य् अपि
न पिता नात्मजो नात्मा न माता न सखीजनः ।
इह प्रेत्य च नारीणां पतिर् एको गतिः सदा
यदि त्वं प्रस्थितो दुर्गं वनम् अद्यैव राघव ।
अग्रतस् ते गमिष्यामि मृद्नन्ती कुशकण्टकान्
ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषम् इवोदकम् ।
नय मां वीर विश्रब्धः पापं मयि न विद्यते
प्रासादाग्रैर् विमानैर् वा वैहायसगतेन वा ।
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते
अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् ।
नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया
सुखं वने निवत्स्यामि यथैव भवने पितुः ।
अचिन्तयन्ती त्रींल् लोकांश् चिन्तयन्ती पतिव्रतम्
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी ।
सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम् ।
अन्यस्यापि जनस्येह किं पुनर् मम मानद
फलमूलाशना नित्यं भविष्यामि न संशयः ।
न ते दुःखं करिष्यामि निवसन्ती सह त्वया
इच्छामि सरितः शैलान् पल्वलानि वनानि च ।
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता
हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः ।
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ।
एवं वर्षसहस्राणां शतं वाहं त्वया सह
स्वर्गे ऽपि च विना वासो भविता यदि राघव ।
त्वया मम नरव्याघ्र नाहं तम् अपि रोचये
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर् युतम् ।
वने निवत्स्यामि यथा पितुर् गृहे तवैव पादाव् उपगृह्य संमता
अनन्यभावाम् अनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् ।
नयस्व मां साधु कुरुष्व याचनां न ते मयातो गुरुता भविष्यति
तथा ब्रुवाणाम् अपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति ।
उवाच चैनां बहु संनिवर्तने वने निवासस्य च दुःखितां प्रति
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0