रामायण (दक्षिणी पाठ) · अध्याय 2.23
रामायण, अयोध्याकाण्ड, 23
अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम् ।
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः
विराजयन् राजसुतो राजमार्गं नरैर् वृतम् ।
हृदयान्य् आममन्थेव जनस्य गुणवत्तया
वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी ।
तद् एव हृदि तस्याश् च यौवराज्याभिषेचनम्
देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना ।
अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते
प्रविवेशाथ रामस् तु स्ववेश्म सुविभूषितम् ।
प्रहृष्टजनसम्पूर्णं ह्रिया किंचिद् अवाङ्मुखः
अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।
अपश्यच् छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम्
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नम् अमर्षणम् ।
आह दुःखाभिसंतप्ता किम् इदानीम् इदं प्रभो
अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव ।
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः
न ते शतशलाकेन जलफेननिभेन च ।
आवृतं वदनं वल्गु छत्त्रेणाभिविराजते
व्यजनाभ्यां च मुख्याभ्यां शतपत्त्रनिभेक्षणम् ।
चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्
वाग्मिनो बन्दिनश् चापि प्रहृष्टास् त्वां नरर्षभ ।
स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः
न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ।
मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः
न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश् च भूषिताः ।
अनुव्रजितुम् इच्छन्ति पौरजानपदास् तथा
चतुर्भिर् वेगसम्पन्नैर् हयैः काञ्चनभूषणैः ।
मुख्यः पुष्यरथो युक्तः किं न गच्छति ते ऽग्रतः
न हस्ती चाग्रतः श्रीमांस् तव लक्षणपूजितः ।
प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः
न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन ।
भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम्
अभिषेको यदा सज्जः किम् इदानीम् इदं तव ।
अपूर्वो मुखवर्णश् च न प्रहर्षश् च लक्ष्यते
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः ।
सीते तत्रभवांस् तातः प्रव्राजयति मां वनम्
कुले महति सम्भूते धर्मज्ञे धर्मचारिणि ।
शृणु जानकि येनेदं क्रमेणाभ्यागतं मम
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे ।
कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ
तयाद्य मम सज्जे ऽस्मिन्न् अभिषेके नृपोद्यते ।
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ।
पित्रा मे भरतश् चापि यौवराज्ये नियोजितः ।
सो ऽहं त्वाम् आगतो द्रष्टुं प्रस्थितो विजनं वनम् ॥ रम्स्_2,23.22* ॥
भरतस्य समीपे ते नाहं कथ्यः कदाचन ।
ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।
तस्मान् न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ रम्स्_2,23.23* ॥
नापि त्वं तेन भर्तव्या विशेषेण कदाचन ।
अनुकूलतया शक्यं समीपे तस्य वर्तितुम्
अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् ।
वनम् अद्यैव यास्यामि स्थिरा भव मनस्विनि
याते च मयि कल्याणि वनं मुनिनिषेवितम् ।
व्रतोपवासरतया भवितव्यं त्वयानघे
काल्यम् उत्थाय देवानां कृत्वा पूजां यथाविधि ।
वन्दितव्यो दशरथः पिता मम नरेश्वरः
माता च मम कौसल्या वृद्धा संतापकर्शिता ।
धर्मम् एवाग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति
वन्दितव्याश् च ते नित्यं याः शेषा मम मातरः ।
स्नेहप्रणयसम्भोगैः समा हि मम मातरः
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।
त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम
विप्रियं न च कर्तव्यं भरतस्य कदाचन ।
स हि राजा प्रभुश् चैव देशस्य च कुलस्य च
आराधिता हि शीलेन प्रयत्नैश् चोपसेविताः ।
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये
औरसान् अपि पुत्रान् हि त्यजन्त्य् अहितकारिणः ।
समर्थान् सम्प्रगृह्णन्ति जनान् अपि नराधिपाः
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यम् इहैव भामिनि ।
यथा व्यलीकं कुरुषे न कस्यचित् तथा त्वया कार्यम् इदं वचो मम
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0