भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.22

2.22.1

रामायण, अयोध्याकाण्ड, 22
सापनीय तम् आयासम् उपस्पृश्य जलं शुचि ।
चकार माता रामस्य मङ्गलानि मनस्विनी

2.22.2

स्वस्ति साध्याश् च विश्वे च मरुतश् च महर्षयः ।
स्वस्ति धाता विधाता च स्वस्ति पूषा भगो ऽर्यमा

2.22.3

ऋतवश् चैव पक्षाश् च मासाः संवत्सराः क्षपाः ।
दिनानि च मुहूर्ताश् च स्वस्ति कुर्वन्तु ते सदा

2.22.4

स्मृतिर् धृतिश् च धर्मश् च पान्तु त्वां पुत्र सर्वतः ।
स्कन्दश् च भगवान् देवः सोमश् च सबृहस्पतिः

2.22.6

सप्तर्षयो नारदश् च ते त्वां रक्षन्तु सर्वतः ।
नक्षत्राणि च सर्वाणि ग्रहाश् च सहदेवताः ।
महावनानि चरतो मुनिवेषस्य धीमतः ॥ रम्स्_2,22.5* ॥
प्लवगा वृश्चिका दंशा मशकाश् चैव कानने ।
सरीसृपाश् च कीटाश् च मा भूवन् गहने तव

2.22.7

महाद्विपाश् च सिंहाश् च व्याघ्रा ऋक्षाश् च दंष्ट्रिणः ।
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक

2.22.8

नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः ।
मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास् त्व् इह

2.22.9

आगमास् ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ।
सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक

2.22.10

स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ।
सर्वेभ्यश् चैव देवेभ्यो ये च ते परिपन्थिनः

2.22.11

सर्वलोकप्रभुर् ब्रह्मा भूतभर्ता तथर्षयः ।
ये च शेषाः सुरास् ते त्वां रक्षन्तु वनवासिनम्

2.22.12

इति माल्यैः सुरगणान् गन्धैश् चापि यशस्विनी ।
स्तुतिभिश् चानुरूपाभिर् आनर्चायतलोचना

2.22.13

यन् मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।
वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम्

2.22.14

यन् मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा ।
अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम्

2.22.15

ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् ।
चकार रक्षां कौसल्या मन्त्रैर् अभिजजाप च

2.22.16

आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ।
अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम्

2.22.17

अरोगं सर्वसिद्धार्थम् अयोध्यां पुनर् आगतम् ।
पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि

2.22.18

मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः ।
अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश् च राघव

2.22.19

इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि ।
प्रदक्षिणं चैव चकार राघवं पुनः पुनश् चापि निपीड्य सस्वजे

2.22.20

तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश् चरणौ पुनः पुनः ।
जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितः स्वया श्रिया

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc