भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.21

2.21.1

रामायण, अयोध्याकाण्ड, 21
तं समीक्ष्य त्व् अवहितं पितुर् निर्देशपालने ।
कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठम् अब्रवीत्

2.21.2

अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः ।
मयि जातो दशरथात् कथम् उञ्छेन वर्तयेत्

2.21.3

यस्य भृत्याश् च दासाश् च मृष्टान्य् अन्नानि भुञ्जते ।
कथं स भोक्ष्यते नाथो वने मूलफलान्य् अयम्

2.21.4

क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद् भयम् ।
गुणवान् दयितो राज्ञो राघवो यद् विवास्यते

2.21.5

त्वया विहीनाम् इह मां शोकाग्निर् अतुलो महान् ।
प्रधक्ष्यति यथा कक्षं चित्रभानुर् हिमात्यये

2.21.6

कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति ।
अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि

2.21.7

तथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः ।
श्रुत्वा रामो ऽब्रवीद् वाक्यं मातरं भृशदुःखिताम्

2.21.8

कैकेय्या वञ्चितो राजा मयि चारण्यम् आश्रिते ।
भवत्या च परित्यक्तो न नूनं वर्तयिष्यति

2.21.9

भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः ।
स भवत्या न कर्तव्यो मनसापि विगर्हितः

2.21.10

यावज् जीवति काकुत्स्थः पिता मे जगतीपतिः ।
शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः

2.21.11

एवम् उक्ता तु रामेण कौसल्या शुभदर्शना ।
तथेत्य् उवाच सुप्रीता रामम् अक्लिष्टकारिणम्

2.21.12

एवम् उक्तस् तु वचनं रामो धर्मभृतां वरः ।
भूयस् ताम् अब्रवीद् वाक्यं मातरं भृशदुःखिताम्

2.21.13

मया चैव भवत्या च कर्तव्यं वचनं पितुः ।
राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः

2.21.14

इमानि तु महारण्ये विहृत्य नव पञ्च च ।
वर्षाणि परमप्रीतः स्थास्यामि वचने तव

2.21.15

एवम् उक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा ।
उवाच परमार्ता तु कौसल्या पुत्रवत्सला

2.21.18

आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् ।
नय माम् अपि काकुत्स्थ वनं वन्यां मृगीं यथा ।
यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया ॥ रम्स्_2,21.16* ॥
तां तथा रुदतीं रामो रुदन् वचनम् अब्रवीत् ।
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुर् एव च ।
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ रम्स्_2,21.17* ॥
भरतश् चापि धर्मात्मा सर्वभूतप्रियंवदः ।
भवतीम् अनुवर्तेत स हि धर्मरतः सदा

2.21.19

यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ।
श्रमं नावाप्नुयात् किंचिद् अप्रमत्ता तथा कुरु

2.21.20

व्रतोपवासनिरता या नारी परमोत्तमा ।
भर्तारं नानुवर्तेत सा च पापगतिर् भवेत्

2.21.21

शुश्रूषाम् एव कुर्वीत भर्तुः प्रियहिते रता ।
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः

2.21.22

पूज्यास् ते मत्कृते देवि ब्राह्मणाश् चैव सुव्रताः ।
एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी

2.21.23

प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्

2.21.25

एवम् उक्ता तु रामेण बाष्पपर्याकुलेक्षणा ।
कौसल्या पुत्रशोकार्ता रामं वचनम् अब्रवीत् ।
गच्छ पुत्र त्वम् एकाग्रो भद्रं ते ऽस्तु सदा विभो ॥ रम्स्_2,21.24* ॥
तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा ।
उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc