भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.20

2.20.1

रामायण, अयोध्याकाण्ड, 20
इति ब्रुवति रामे तु लक्ष्मणो ऽधःशिरा मुहुः ।
श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः

2.20.2

तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर् मध्ये नरर्षभः ।
निशश्वास महासर्पो बिलस्थ इव रोषितः

2.20.3

तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा ।
बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्

2.20.4

अग्रहस् तं विधुन्वंस् तु हस्ती हस्तम् इवात्मनः ।
तिर्यग् ऊर्ध्वं शरीरे च पातयित्वा शिरोधराम्

2.20.5

अग्राक्ष्णा वीक्षमाणस् तु तिर्यग् भ्रातरम् अब्रवीत् ।
अस्थाने सम्भ्रमो यस्य जातो वै सुमहान् अयम्

2.20.6

धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया ।
कथं ह्य् एतद् असम्भ्रान्तस् त्वद्विधो वक्तुम् अर्हति

2.20.7

यथा दैवम् अशौण्डीरं शौण्डीरः क्षत्रियर्षभः ।
किं नाम कृपणं दैवम् अशक्तम् अभिशंससि

2.20.8

पापयोस् तु कथं नाम तयोः शङ्का न विद्यते ।
सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं न बुध्यसे

2.20.10

लोकविद्विष्टम् आरब्धं त्वदन्यस्याभिषेचनम् ।
येनेयम् आगता द्वैधं तव बुद्धिर् महीपते ।
स हि धर्मो मम द्वेष्यः प्रसङ्गाद् यस्य मुह्यसि ॥ रम्स्_2,20.9* ॥
यद्य् अपि प्रतिपत्तिस् ते दैवी चापि तयोर् मतम् ।
तथाप्य् उपेक्षणीयं ते न मे तद् अपि रोचते

2.20.11

विक्लवो वीर्यहीनो यः स दैवम् अनुवर्तते ।
वीराः संभावितात्मानो न दैवं पर्युपासते

2.20.12

दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् ।
न दैवेन विपन्नार्थः पुरुषः सो ऽवसीदति

2.20.13

द्रक्ष्यन्ति त्व् अद्य दैवस्य पौरुषं पुरुषस्य च ।
दैवमानुषयोर् अद्य व्यक्ता व्यक्तिर् भविष्यति

2.20.14

अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः ।
यद् दैवाद् आहतं ते ऽद्य दृष्टं राज्याभिषेचनम्

2.20.15

अत्यङ्कुशम् इवोद्दामं गजं मदबलोद्धतम् ।
प्रधावितम् अहं दैवं पौरुषेण निवर्तये

2.20.16

लोकपालाः समस्तास् ते नाद्य रामाभिषेचनम् ।
न च कृत्स्नास् त्रयो लोका विहन्युः किं पुनः पिता

2.20.17

यैर् विवासस् तवारण्ये मिथो राजन् समर्थितः ।
अरण्ये ते विवत्स्यन्ति चतुर्दश समास् तथा

2.20.18

अहं तदाशां छेत्स्यामि पितुस् तस्याश् च या तव ।
अभिषेकविघातेन पुत्रराज्याय वर्तते

2.20.19

मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा ।
प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम

2.20.20

ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यम् अनन्तरम् ।
आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि

2.20.21

पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते ।
प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने

2.20.22

स चेद् राजन्य् अनेकाग्रे राज्यविभ्रमशङ्कया ।
नैवम् इच्छसि धर्मात्मन् राज्यं राम त्वम् आत्मनि

2.20.23

प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् ।
राज्यं च तव रक्षेयम् अहं वेलेव सागरम्

2.20.24

मङ्गलैर् अभिषिञ्चस्व तत्र त्वं व्यापृतो भव ।
अहम् एको महीपालान् अलं वारयितुं बलात्

2.20.25

न शोभार्थाव् इमौ बाहू न धनुर् भूषणाय मे ।
नासिराबन्धनार्थाय न शराः स्तम्भहेतवः

2.20.26

अमित्रदमनार्थं मे सर्वम् एतच् चतुष्टयम् ।
न चाहं कामये ऽत्यर्थं यः स्याच् छत्रुर् मतो मम

2.20.27

असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ।
प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये

2.20.28

खड्गनिष्पेषनिष्पिष्टैर् गहना दुश्चरा च मे ।
हस्त्यश्वनरहस्तोरुशिरोभिर् भविता मही

2.20.29

खड्गधारा हता मे ऽद्य दीप्यमाना इवाद्रयः ।
पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः

2.20.30

बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ।
कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते

2.20.31

बहुभिश् चैकम् अत्यस्यन्न् एकेन च बहूञ् जनान् ।
विनियोक्ष्याम्य् अहं बाणान् नृवाजिगजमर्मसु

2.20.32

अद्य मे ऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति ।
राज्ञश् चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो

2.20.33

अद्य चन्दनसारस्य केयूरामोक्षणस्य च ।
वसूनां च विमोक्षस्य सुहृदां पालनस्य च

2.20.34

अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः ।
अभिषेचनविघ्नस्य कर्त्ःणां ते निवारणे

2.20.35

ब्रवीहि को ऽद्यैव मया वियुज्यतां तवासुहृत् प्राणयशः सुहृज्जनैः ।
यथा तवेयं वसुधा वशे भवेत् तथैव मां शाधि तवास्मि किंकरः

2.20.36

विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्धनः ।
उवाच पित्र्ये वचने व्यवस्थितं निबोध माम् एष हि सौम्य सत्पथः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc