रामायण (दक्षिणी पाठ) · अध्याय 2.19
रामायण, अयोध्याकाण्ड, 19
अथ तं व्यथया दीनं सविशेषम् अमर्षितम् ।
श्वसन्तम् इव नागेन्द्रं रोषविस्फारितेक्षणम्
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् ।
उवाचेदं स धैर्येण धारयन् सत्त्वम् आत्मवान्
सौमित्रे यो ऽभिषेकार्थे मम सम्भारसम्भ्रमः ।
अभिषेकनिवृत्त्यर्थे सो ऽस्तु सम्भारसम्भ्रमः
यस्या मदभिषेकार्थं मानसं परितप्यते ।
माता नः सा यथा न स्यात् सविशङ्का तथा कुरु
तस्याः शङ्कामयं दुःखं मुहूर्तम् अपि नोत्सहे ।
मनसि प्रतिसंजातं सौमित्रे ऽहम् उपेक्षितुम्
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन ।
मात्ःणां वा पितुर् वाहं कृतम् अल्पं च विप्रियम्
सत्यः सत्याभिसंधश् च नित्यं सत्यपराक्रमः ।
परलोकभयाद् भीतो निर्भयो ऽस्तु पिता मम
तस्यापि हि भवेद् अस्मिन् कर्मण्य् अप्रतिसंहृते ।
सत्यं नेति मनस्तापस् तस्य तापस् तपेच् च माम्
अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण ।
अन्वग् एवाहम् इच्छामि वनं गन्तुम् इतः पुनः
मम प्रव्राजनाद् अद्य कृतकृत्या नृपात्मजा ।
सुतं भरतम् अव्यग्रम् अभिषेचयिता ततः
मयि चीराजिनधरे जटामण्डलधारिणि ।
गते ऽरण्यं च कैकेय्या भविष्यति मनःसुखम्
बुद्धिः प्रणीता येनेयं मनश् च सुसमाहितम् ।
तत् तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम्
कृतान्तस् त्व् एव सौमित्रे द्रष्टव्यो मत्प्रवासने ।
राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने
कैकेय्याः प्रतिपत्तिर् हि कथं स्यान् मम पीडने ।
यदि भावो न दैवो ऽयं कृतान्तविहितो भवेत्
जानासि हि यथा सौम्य न मातृषु ममान्तरम् ।
भूतपूर्वं विशेषो वा तस्या मयि सुते ऽपि वा
सो ऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश् च दुर्वचैः ।
उग्रैर् वाक्यैर् अहं तस्या नान्यद् दैवात् समर्थये
कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा ।
ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ
यद् अचिन्त्यं तु तद् दैवं भूतेष्व् अपि न हन्यते ।
व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः
कश्चिद् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् ।
यस्य न ग्रहणं किंचित् कर्मणो ऽन्यत्र दृश्यते
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
यस्य किंचित् तथा भूतं ननु दैवस्य कर्म तत्
व्याहते ऽप्य् अभिषेके मे परितापो न विद्यते ।
तस्माद् अपरितापः संस् त्वम् अप्य् अनुविधाय माम् ।
प्रतिसंहारय क्षिप्रम् आभिषेचनिकीं क्रियाम् ॥ रम्स्_2,19.21* ॥
न लक्ष्मणास्मिन् मम राज्यविघ्ने माता यवीयस्य् अतिशङ्कनीया ।
दैवाभिपन्ना हि वदन्त्य् अनिष्टं जानासि दैवं च तथा प्रभावम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0