भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.2

2.2.1

रामायण, अयोध्याकाण्ड, 2
ततः परिषदं सर्वाम् आमन्त्र्य वसुधाधिपः ।
हितम् उद्धर्षणं चेदम् उवाचाप्रतिमं वचः

2.2.2

दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना ।
स्वरेण महता राजा जीमूत इव नादयन्

2.2.3

सो ऽहम् इक्ष्वाकुभिः पूर्वैर् नरेन्द्रैः परिपालितम् ।
श्रेयसा योक्तुकामो ऽस्मि सुखार्हम् अखिलं जगत्

2.2.4

मयाप्य् आचरितं पूर्वैः पन्थानम् अनुगच्छता ।
प्रजा नित्यम् अतन्द्रेण यथाशक्त्य् अभिरक्षता

2.2.5

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
पाण्डुर् अस्यातपत्रस्य छायायां जरितं मया

2.2.6

प्राप्य वर्षसहस्राणि बहून्य् आयूंषि जीवितः ।
जीर्णस्यास्य शरीरस्य विश्रान्तिम् अभिरोचये

2.2.7

राजप्रभावजुष्टां हि दुर्वहाम् अजितेन्द्रियैः ।
परिश्रान्तो ऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्

2.2.8

सो ऽहं विश्रमम् इच्छामि पुत्रं कृत्वा प्रजाहिते ।
संनिकृष्टान् इमान् सर्वान् अनुमान्य द्विजर्षभान्

2.2.9

अनुजातो हि मे सर्वैर् गुणैर् ज्येष्ठो ममात्मजः ।
पुरंदरसमो वीर्ये रामः परपुरंजयः

2.2.10

तं चन्द्रम् इव पुष्येण युक्तं धर्मभृतां वरम् ।
यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम्

2.2.11

अनुरूपः स वो नाथो लक्ष्मीवांल् लक्ष्मणाग्रजः ।
त्रैलोक्यम् अपि नाथेन येन स्यान् नाथवत्तरम्

2.2.12

अनेन श्रेयसा सद्यः संयोज्याहम् इमां महीम् ।
गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै

2.2.13

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् ।
वृष्टिमन्तं महामेघं नर्दन्तम् इव बर्हिणः

2.2.14

तस्य धर्मार्थविदुषो भावम् आज्ञाय सर्वशः ।
ऊचुश् च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्

2.2.15

अनेकवर्षसाहस्रो वृद्धस् त्वम् असि पार्थिव ।
स रामं युवराजानम् अभिषिञ्चस्व पार्थिवम्

2.2.16

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
अजानन्न् इव जिज्ञासुर् इदं वचनम् अब्रवीत्

2.2.17

कथं नु मयि धर्मेण पृथिवीम् अनुशासति ।
भवन्तो द्रष्टुम् इच्छन्ति युवराजं ममात्मजम्

2.2.18

ते तम् ऊचुर् महात्मानं पौरजानपदैः सह ।
बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते

2.2.19

दिव्यैर् गुणैः शक्रसमो रामः सत्यपराक्रमः ।
इक्ष्वाकुभ्यो हि सर्वेभ्यो ऽप्य् अतिरक्तो विशाम्पते

2.2.20

रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।
धर्मज्ञः सत्यसंधश् च शीलवान् अनसूयकः

2.2.21

क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ।
मृदुश् च स्थिरचित्तश् च सदा भव्यो ऽनसूयकः

2.2.22

प्रियवादी च भूतानां सत्यवादी च राघवः ।
बहुश्रुतानां वृद्धानां ब्राह्मणानाम् उपासिता

2.2.23

तेनास्येहातुला कीर्तिर् यशस् तेजश् च वर्धते ।
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः

2.2.24

यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ।
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते

2.2.25

संग्रामात् पुनर् आगम्य कुञ्जरेण रथेन वा ।
पौरान् स्वजनवन् नित्यं कुशलं परिपृच्छति

2.2.26

पुत्रेष्व् अग्निषु दारेषु प्रेष्यशिष्यगणेषु च ।
निखिलेनानुपूर्व्या च पिता पुत्रान् इवौरसान्

2.2.27

शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः ।
इति नः पुरुषव्याघ्रः सदा रामो ऽभिभाषते

2.2.28

व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।
उत्सवेषु च सर्वेषु पितेव परितुष्यति

2.2.29

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ।
वत्सः श्रेयसि जातस् ते दिष्ट्यासौ तव राघवः ।
दिष्ट्या पुत्रगुणैर् युक्तो मारीच इव कश्यपः

2.2.30

बलम् आरोग्यम् आयुश् च रामस्य विदितात्मनः ।
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा

2.2.31

अभ्यन्तरश् च बाह्यश् च पौरजानपदो जनः ।
स्त्रियो वृद्धास् तरुण्यश् च सायम्प्रातः समाहिताः

2.2.32

सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ।
तेषाम् आयाचितं देव त्वत्प्रसादात् समृध्यताम्

2.2.33

रामम् इन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ।
पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्

2.2.34

तं देवदेवोपमम् आत्मजं ते सर्वस्य लोकस्य हिते निविष्टम् ।
हिताय नः क्षिप्रम् उदारजुष्टं मुदाभिषेक्तुं वरद त्वम् अर्हसि

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc