भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.1

2.1.1

रामायण, अयोध्याकाण्ड, 1
कस्यचित् त्व् अथ कालस्य राजा दशरथः सुतम् ।
भरतं केकयीपुत्रम् अब्रवीद् रघुनन्दनः

2.1.2

अयं केकयराजस्य पुत्रो वसति पुत्रक ।
त्वां नेतुम् आगतो वीर युधाजिन् मातुलस् तव

2.1.3

श्रुत्वा दशरथस्यैतद् भरतः केकयीसुतः ।
गमनायाभिचक्राम शत्रुघ्नसहितस् तदा

2.1.4

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।
मात्ःंश् चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ

2.1.5

युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ।
स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह

2.1.6

स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः ।
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः

2.1.7

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्

2.1.8

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ

2.1.9

सर्व एव तु तस्येष्टाश् चत्वारः पुरुषर्षभाः ।
स्वशरीराद् विनिर्वृत्ताश् चत्वार इव बाहवः

2.1.10

तेषाम् अपि महातेजा रामो रतिकरः पितुः ।
स्वयम्भूर् इव भूतानां बभूव गुणवत्तरः

2.1.11

गते च भरते रामो लक्ष्मणश् च महाबलः ।
पितरं देवसंकाशं पूजयामासतुस् तदा

2.1.12

पितुर् आज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।
चकार रामो धर्मात्मा प्रियाणि च हितानि च

2.1.13

मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः ।
गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत

2.1.14

एवं दशरथः प्रीतो ब्राह्मणा नैगमास् तथा ।
रामस्य शीलवृत्तेन सर्वे विषयवासिनः

2.1.15

स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते ।
उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते

2.1.16

कथंचिद् उपकारेण कृतेनैकेन तुष्यति ।
न स्मरत्य् अपकाराणां शतम् अप्य् आत्मवत्तया

2.1.17

शीलवृद्धैर् ज्ञानवृद्धैर् वयोवृद्धैश् च सज्जनैः ।
कथयन्न् आस्त वै नित्यम् अस्त्रयोग्यान्तरेष्व् अपि

2.1.18

कल्याणाभिजनः साधुर् अदीनः सत्यवाग् ऋजुः ।
वृद्धैर् अभिविनीतश् च द्विजैर् धर्मार्थदर्शिभिः

2.1.19

धर्मार्थकामतत्त्वज्ञः स्मृतिमान् प्रतिभावनान् ।
लौकिके समयाचरे कृतकल्पो विशारदः

2.1.20

शास्त्रज्ञश् च कृतज्ञश् च पुरुषान्तरकोविदः ।
यः प्रग्रहानुग्रहयोर् यथान्यायं विचक्षणः

2.1.21

आयकर्मण्य् उपायज्ञः संदृष्टव्ययकर्मवित् ।
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्व् अपि

2.1.22

अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ।
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्

2.1.23

आरोहे विनये चैव युक्तो वारणवाजिनाम् ।
धनुर्वेदविदां श्रेष्ठो लोके ऽतिरथसंमतः

2.1.25

अभियाता प्रहर्ता च सेनानयविशारदः ।
अप्रधृष्यश् च संग्रामे क्रुद्धैर् अपि सुरासुरैः ।
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।
न चावमन्ता भूतानां न च कालवशानुगः ॥ रम्स्_2,1.24* ॥
एवं श्रेष्ठैर् गुणैर् युक्तः प्रजानां पार्थिवात्मजः ।
संमतस् त्रिषु लोकेषु वसुधायाः क्षमागुणैः ।
बुद्ध्या बृहस्पतेस् तुल्यो वीर्येणापि शचीपतेः

2.1.26

तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ।
गुणैर् विरुरुचे रामो दीप्तः सूर्य इवांशुभिः

2.1.27

तम् एवंवृत्तसम्पन्नम् अप्रधृष्यपराक्रमम् ।
लोकपालोपमं नाथम् अकामयत मेदिनी

2.1.28

एतैस् तु बहुभिर् युक्तं गुणैर् अनुपमैः सुतम् ।
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः

2.1.29

एषा ह्य् अस्य परा प्रीतिर् हृदि सम्परिवर्तते ।
कदा नाम सुतं द्रक्ष्याम्य् अभिषिक्तम् अहं प्रियम्

2.1.30

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ।
मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्

2.1.31

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ।
महीधरसमो धृत्यां मत्तश् च गुणवत्तरः

2.1.32

महीम् अहम् इमां कृत्स्नाम् अधितिष्ठन्तम् आत्मजम् ।
अनेन वयसा दृष्ट्वा यथा स्वर्गम् अवाप्नुयाम्

2.1.33

तं समीक्ष्य महाराजो युक्तं समुदितैर् गुणैः ।
निश्चित्य सचिवैः सार्धं युवराजम् अमन्यत

2.1.34

नानानगरवास्तव्यान् पृथग्जानपदान् अपि ।
समानिनाय मेदिन्याः प्रधानान् पृथिवीपतिः

2.1.35

अथ राजवितीर्णेषु विविधेष्व् आसनेषु च ।
राजानम् एवाभिमुखा निषेदुर् नियता नृपाः

2.1.36

स लब्धमानैर् विनयान्वितैर् नृपैः पुरालयैर् जानपदैश् च मानवैः ।
उपोपविष्टैर् नृपतिर् वृतो बभौ सहस्रचक्षुर् भगवान् इवामरैः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc