रामायण (दक्षिणी पाठ) · अध्याय 2.18
रामायण, अयोध्याकाण्ड, 18
तथा तु विलपन्तीं तां कौसल्यां राममातरम् ।
उवाच लक्ष्मणो दीनस् तत् कालसदृशं वचः
न रोचते ममाप्य् एतद् आर्ये यद् राघवो वनम् ।
त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः
विपरीतश् च वृद्धश् च विषयैश् च प्रधर्षितः ।
नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः
नास्यापराधं पश्यामि नापि दोषं तथाविधम् ।
येन निर्वास्यते राष्ट्राद् वनवासाय राघवः
न तं पश्याम्य् अहं लोके परोक्षम् अपि यो नरः ।
अमित्रो ऽपि निरस्तो ऽपि यो ऽस्य दोषम् उदाहरेत्
देवकल्पम् ऋजुं दान्तं रिपूणाम् अपि वत्सलम् ।
अवेक्षमाणः को धर्मं त्यजेत् पुत्रम् अकारणात्
तद् इदं वचनं राज्ञः पुनर् बाल्यम् उपेयुषः ।
पुत्रः को हृदये कुर्याद् राजवृत्तम् अनुस्मरन्
यावद् एव न जानाति कश्चिद् अर्थम् इमं नरः ।
तावद् एव मया सार्धम् आत्मस्थं कुरु शासनम्
मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।
कः समर्थो ऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः
निर्मनुष्याम् इमां सर्वाम् अयोध्यां मनुजर्षभ ।
करिष्यामि शरैस् तीक्ष्णैर् यदि स्थास्यति विप्रिये
भरतस्याथ पक्ष्यो वा यो वास्य हितम् इच्छति ।
सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते
त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् ।
कस्य शक्तिः श्रियं दातुं भरतायारिशासन
अनुरक्तो ऽस्मि भावेन भ्रातरं देवि तत्त्वतः ।
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे
दीप्तम् अग्निम् अरण्यं वा यदि रामः प्रवेक्ष्यते ।
प्रविष्टं तत्र मां देवि त्वं पूर्वम् अवधारय
हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः ।
देवी पश्यतु मे वीर्यं राघवश् चैव पश्यतु
एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।
उवाच रामं कौसल्या रुदन्ती शोकलालसा
भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया ।
यद् अत्रानन्तरं तत् त्वं कुरुष्व यदि रोचते
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् ।
विहाय शोकसंतप्तां गन्तुम् अर्हसि माम् इतः
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुम् इच्छसि ।
शुश्रूष माम् इहस्थस् त्वं चर धर्मम् अनुत्तमम्
शुश्रूषुर् जननीं पुत्र स्वगृहे नियतो वसन् ।
परेण तपसा युक्तः काश्यपस् त्रिदिवं गतः
यथैव राजा पूज्यस् ते गौरवेण तथा ह्य् अहम् ।
त्वां नाहम् अनुजानामि न गन्तव्यम् इतो वनम्
त्वद्वियोगान् न मे कार्यं जीवितेन सुखेन वा ।
त्वया सह मम श्रेयस् तृणानाम् अपि भक्षणम्
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।
अहं प्रायम् इहासिष्ये न हि शक्ष्यामि जीवितुम्
ततस् त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् ।
ब्रह्महत्याम् इवाधर्मात् समुद्रः सरितां पतिः
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः ।
उवाच रामो धर्मात्मा वचनं धर्मसंहितम्
नास्ति शक्तिः पितुर् वाक्यं समतिक्रमितुं मम ।
प्रसादये त्वां शिरसा गन्तुम् इच्छाम्य् अहं वनम्
ऋषिणा च पितुर् वाक्यं कुर्वता व्रतचारिणा ।
गौर् हता जानता धर्मं कण्डुनापि विपश्चिता
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः ।
खनद्भिः सागरैर् भूतिम् अवाप्तः सुमहान् वधः
जामदग्न्येन रामेण रेणुका जननी स्वयम् ।
कृत्ता परशुनारण्ये पितुर् वचनकारिणा
न खल्व् एतन् मयैकेन क्रियते पितृशासनम् ।
पूर्वैर् अयम् अभिप्रेतो गतो मार्गो ऽनुगम्यते
तद् एतत् तु मया कार्यं क्रियते भुवि नान्यथा ।
पितुर् हि वचनं कुर्वन् न कश्चिन् नाम हीयते
ताम् एवम् उक्त्वा जननीं लक्ष्मणं पुनर् अब्रवीत् ।
तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् ।
अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च ॥ रम्स्_2,18.32* ॥
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।
धर्मसंश्रितम् एतच् च पितुर् वचनम् उत्तमम्
संश्रुत्य च पितुर् वाक्यं मातुर् वा ब्राह्मणस्य वा ।
न कर्तव्यं वृथा वीर धर्मम् आश्रित्य तिष्ठता
सो ऽहं न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् ।
पितुर् हि वचनाद् वीर कैकेय्याहं प्रचोदितः
तद् एनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् ।
धर्मम् आश्रय मा तैक्ष्ण्यं मद्बुद्धिर् अनुगम्यताम्
तम् एवम् उक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः ।
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः
अनुमन्यस्व मां देवि गमिष्यन्तम् इतो वनम् ।
शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ।
तीर्णप्रतिज्ञश् च वनात् पुनर् एष्याम्य् अहं पुरीम् ॥ रम्स्_2,18.38* ॥
यशो ह्य् अहं केवलराज्यकारणान् न पृष्ठतः कर्तुम् अलं महोदयम् ।
अदीर्घकाले न तु देवि जीविते वृणे ऽवराम् अद्य महीम् अधर्मतः
प्रसादयन् नरवृषभः स मातरं पराक्रमाज् जिगमिषुर् एव दण्डकान् ।
अथानुजं भृशम् अनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0