रामायण (दक्षिणी पाठ) · अध्याय 2.16
रामायण, अयोध्याकाण्ड, 16
स ददर्शासने रामो निषण्णं पितरं शुभे ।
कैकेयीसहितं दीनं मुखेन परिशुष्यता
स पितुश् चरणौ पूर्वम् अभिवाद्य विनीतवत् ।
ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः
रामेत्य् उक्त्वा च वचनं बाष्पपर्याकुलेक्षणः ।
शशाक नृपतिर् दीनो नेक्षितुं नाभिभाषितुम्
तद् अपूर्वं नरपतेर् दृष्ट्वा रूपं भयावहम् ।
रामो ऽपि भयम् आपन्नः पदा स्पृष्ट्वेव पन्नगम्
इन्द्रियैर् अप्रहृष्टैस् तं शोकसंतापकर्शितम् ।
निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्
ऊर्मिमालिनम् अक्षोभ्यं क्षुभ्यन्तम् इव सागरम् ।
उपप्लुतम् इवादित्यम् उक्तानृतम् ऋषिं यथा
अचिन्त्यकल्पं हि पितुस् तं शोकम् उपधारयन् ।
बभूव संरब्धतरः समुद्र इव पर्वणि
चिन्तयामास च तदा रामः पितृहिते रतः ।
किंस्विद् अद्यैव नृपतिर् न मां प्रत्यभिनन्दति
अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति ।
तस्य माम् अद्य सम्प्रेक्ष्य किमायासः प्रवर्तते
स दीन इव शोकार्तो विषण्णवदनद्युतिः ।
कैकेयीम् अभिवाद्यैव रामो वचनम् अब्रवीत्
कच्चिन् मया नापराधम् अज्ञानाद् येन मे पिता ।
कुपितस् तन् ममाचक्ष्व त्वं चैवैनं प्रसादय
विवर्णवदनो दीनो न हि माम् अभिभाषते ।
शारीरो मानसो वापि कच्चिद् एनं न बाधते ।
संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥ रम्स्_2,16.12* ॥
कच्चिन् न किंचिद् भरते कुमारे प्रियदर्शने ।
शत्रुघ्ने वा महासत्त्वे मात्ःणां वा ममाशुभम्
अतोषयन् महाराजम् अकुर्वन् वा पितुर् वचः ।
मुहूर्तम् अपि नेच्छेयं जीवितुं कुपिते नृपे
यतोमूलं नरः पश्येत् प्रादुर्भावम् इहात्मनः ।
कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते
कच्चित् ते परुषं किंचिद् अभिमानात् पिता मम ।
उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः
एतद् आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः ।
किंनिमित्तम् अपूर्वो ऽयं विकारो मनुजाधिपे
अहं हि वचनाद् राज्ञः पतेयम् अपि पावके ।
भक्षयेयं विषं तीक्ष्णं मज्जेयम् अपि चार्णवे ।
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ रम्स्_2,16.18* ॥
तद् ब्रूहि वचनं देवि राज्ञो यद् अभिकाङ्क्षितम् ।
करिष्ये प्रतिजाने च रामो द्विर् नाभिभाषते
तम् आर्जवसमायुक्तम् अनार्या सत्यवादिनम् ।
उवाच रामं कैकेयी वचनं भृशदारुणम्
पुरा देवासुरे युद्धे पित्रा ते मम राघव ।
रक्षितेन वरौ दत्तौ सशल्येन महारणे
तत्र मे याचितो राजा भरतस्याभिषेचनम् ।
गमनं दण्डकारण्ये तव चाद्यैव राघव
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुम् इच्छसि ।
आत्मानं च नरश्रेष्ठ मम वाक्यम् इदं शृणु
स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् ।
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च
सप्त सप्त च वर्षाणि दण्डकारण्यम् आश्रितः ।
अभिषेकम् इमं त्यक्त्वा जटाचीरधरो वस
भरतः कोसलपुरे प्रशास्तु वसुधाम् इमाम् ।
नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम्
तद् अप्रियम् अमित्रघ्नो वचनं मरणोपमम् ।
श्रुत्वा न विव्यथे रामः कैकेयीं चेदम् अब्रवीत्
एवम् अस्तु गमिष्यामि वनं वस्तुम् अहं त्व् अतः ।
जटाचीरधरो राज्ञः प्रतिज्ञाम् अनुपालयन्
इदं तु ज्ञातुम् इच्छामि किमर्थं मां महीपतिः ।
नाभिनन्दति दुर्धर्षो यथापुरम् अरिंदमः
मन्युर् न च त्वया कार्यो देवि ब्रूहि तवाग्रतः ।
यास्यामि भव सुप्रीता वनं चीरजटाधरः
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।
नियुज्यमानो विश्रब्धं किं न कुर्याद् अहं प्रियम्
अलीकं मानसं त्व् एकं हृदयं दहतीव मे ।
स्वयं यन् नाह मां राजा भरतस्याभिषेचनम्
अहं हि सीतां राज्यं च प्राणान् इष्टान् धनानि च ।
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः
किं पुनर् मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ।
तव च प्रियकामार्थं प्रतिज्ञाम् अनुपालयन्
तद् आश्वासय हीमं त्वं किं न्व् इदं यन् महीपतिः ।
वसुधासक्तनयनो मन्दम् अश्रूणि मुञ्चति
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर् हयैः ।
भरतं मातुलकुलाद् अद्यैव नृपशासनात्
दण्डकारण्यम् एषो ऽहम् इतो गच्छामि सत्वरः ।
अविचार्य पितुर् वाक्यं समावस्तुं चतुर्दश
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकेयी ।
प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम्
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर् हयैः ।
भरतं मातुलकुलाद् उपावर्तयितुं नराः
तव त्व् अहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।
राम तस्माद् इतः शीघ्रं वनं त्वं गन्तुम् अर्हसि
व्रीडान्वितः स्वयं यच् च नृपस् त्वां नाभिभाषते ।
नैतत् किंचिन् नरश्रेष्ठ मन्युर् एषो ऽपनीयताम्
यावत् त्वं न वनं यातः पुराद् अस्माद् अभित्वरन् ।
पिता तावन् न ते राम स्नास्यते भोक्ष्यते ऽपि वा
धिक् कष्टम् इति निःश्वस्य राजा शोकपरिप्लुतः ।
मूर्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते
रामो ऽप्य् उत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।
कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः
तद् अप्रियम् अनार्याया वचनं दारुणोदरम् ।
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यम् अब्रवीत्
नाहम् अर्थपरो देवि लोकम् आवस्तुम् उत्सहे ।
विद्धि माम् ऋषिभिस् तुल्यं केवलं धर्मम् आस्थितम्
यद् अत्रभवतः किंचिच् छक्यं कर्तुं प्रियं मया ।
प्राणान् अपि परित्यज्य सर्वथा कृतम् एव तत्
न ह्य् अतो धर्मचरणं किंचिद् अस्ति महत्तरम् ।
यथा पितरि शुश्रूषा तस्य वा वचनक्रिया
अनुक्तो ऽप्य् अत्रभवता भवत्या वचनाद् अहम् ।
वने वत्स्यामि विजने वर्षाणीह चतुर्दश
न नूनं मयि कैकेयि किंचिद् आशंससे गुणम् ।
यद् राजानम् अवोचस् त्वं ममेश्वरतरा सती
यावन् मातरम् आपृच्छे सीतां चानुनयाम्य् अहम् ।
ततो ऽद्यैव गमिष्यामि दण्डकानां महद् वनम्
भरतः पालयेद् राज्यं शुश्रूषेच् च पितुर् यथा ।
तथा भवत्या कर्तव्यं स हि धर्मः सनातनः
स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता ।
शोकाद् अशक्नुवन् बाष्पं प्ररुरोद महास्वनम्
वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस् तदा ।
कैकेय्याश् चाप्य् अनार्याया निष्पपात महाद्युतिः
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।
निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम्
तं बाष्पपरिपूर्णाक्षः पृष्ठतो ऽनुजगाम ह ।
लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।
शनैर् जगाम सापेक्षो दृष्टिं तत्राविचालयन्
न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति ।
लोककान्तस्य कान्तत्वं शीतरश्मेर् इव क्षपा
न वनं गन्तुकामस्य त्यजतश् च वसुंधराम् ।
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया
धारयन् मनसा दुःखम् इन्द्रियाणि निगृह्य च ।
प्रविवेशात्मवान् वेश्म मातुर् अप्रियशंसिवान्
प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिम् आगताम् ।
न चैव रामो ऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0