रामायण (दक्षिणी पाठ) · अध्याय 2.15
रामायण, अयोध्याकाण्ड, 15
स रामो रथम् आस्थाय सम्प्रहृष्टसुहृज्जनः ।
अपश्यन् नगरं श्रीमान् नानाजनसमाकुलम्
स गृहैर् अभ्रसंकाशैः पाण्डुरैर् उपशोभितम् ।
राजमार्गं ययौ रामो मध्येनागरुधूपितम्
शोभमानम् असंबाधं तं राजपथम् उत्तमम् ।
संवृतं विविधैः पण्यैर् भक्ष्यैर् उच्चावचैर् अपि
आशीर्वादान् बहूञ् शृण्वन् सुहृद्भिः समुदीरितान् ।
यथार्हं चापि सम्पूज्य सर्वान् एव नरान् ययौ
पितामहैर् आचरितं तथैव प्रपितामहैः ।
अद्योपादाय तं मार्गम् अभिषिक्तो ऽनुपालय
यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ।
ततः सुखतरं सर्वे रामे वत्स्याम राजनि
अलम् अद्य हि भुक्तेन परमार्थैर् अलं च नः ।
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्
अतो हि न प्रियतरं नान्यत् किंचिद् भविष्यति ।
यथाभिषेको रामस्य राज्येनामिततेजसः
एताश् चान्याश् च सुहृदाम् उदासीनः कथाः शुभाः ।
आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम्
न हि तस्मान् मनः कश्चिच् चक्षुषी वा नरोत्तमात् ।
नरः शक्नोत्य् अपाक्रष्टुम् अतिक्रान्ते ऽपि राघवे
सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् ।
चतुर्णां हि वयःस्थानां तेन ते तम् अनुव्रताः
स राजकुलम् आसाद्य महेन्द्रभवनोपमम् ।
राजपुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन्
स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ।
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरम् अभ्यगात्
ततः प्रविष्टे पितुर् अन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे ।
प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0