रामायण (दक्षिणी पाठ) · अध्याय 2.14
रामायण, अयोध्याकाण्ड, 14
स तदन्तःपुरद्वारं समतीत्य जनाकुलम् ।
प्रविविक्तां ततः कक्ष्याम् आससाद पुराणवित्
प्रासकार्मुकबिभ्रद्भिर् युवभिर् मृष्टकुण्डलैः ।
अप्रमादिभिर् एकाग्रैः स्वनुरक्तैर् अधिष्ठिताम्
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् ।
ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान्
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ।
सहभार्याय रामाय क्षिप्रम् एवाचचक्षिरे
प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरं पितुः ।
तत्रैवानाययामास राघवः प्रियकाम्यया
तं वैश्रवणसंकाशम् उपविष्टं स्वलंकृतम् ।
ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे
वराहरुधिराभेण शुचिना च सुगन्धिना ।
अनुलिप्तं परार्ध्येन चन्दनेन परंतपम्
स्थितया पार्श्वतश् चापि वालव्यजनहस्तया ।
उपेतं सीतया भूयश् चित्रया शशिनं यथा
तं तपन्तम् इवादित्यम् उपपन्नं स्वतेजसा ।
ववन्दे वरदं बन्दी नियमज्ञो विनीतवत्
प्राञ्जलिस् तु सुखं पृष्ट्वा विहारशयनासने ।
राजपुत्रम् उवाचेदं सुमन्त्रो राजसत्कृतः
कौसल्या सुप्रभा देव पिता त्वां द्रष्टुम् इच्छति ।
महिष्या सह कैकेय्या गम्यतां तत्र माचिरम्
एवम् उक्तस् तु संहृष्टो नरसिंहो महाद्युतिः ।
ततः संमानयामास सीताम् इदम् उवाच ह
देवि देवश् च देवी च समागम्य मदन्तरे ।
मन्त्रयेते ध्रुवं किंचिद् अभिषेचनसंहितम्
लक्षयित्वा ह्य् अभिप्रायं प्रियकामा सुदक्षिणा ।
संचोदयति राजानं मदर्थं मदिरेक्षणा
यादृशी परिषत् तत्र तादृशो दूत आगतः ।
ध्रुवम् अद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति
हन्त शीघ्रम् इतो गत्वा द्रक्ष्यामि च महीपतिम् ।
सह त्वं परिवारेण सुखम् आस्व रमस्व च
पतिसंमानिता सीता भर्तारम् असितेक्षणा ।
आद्वारम् अनुवव्राज मङ्गलान्य् अभिदध्युषी
स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ।
ततः पावकसंकाशम् आरुरोह रथोत्तमम्
मुष्णन्तम् इव चक्षूंषि प्रभया हेमवर्चसम् ।
करेणुशिशुकल्पैश् च युक्तं परमवाजिभिः
हरियुक्तं सहस्राक्षो रथम् इन्द्र इवाशुगम् ।
प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया
स पर्जन्य इवाकाशे स्वनवान् अभिनादयन् ।
निकेतान् निर्ययौ श्रीमान् महाभ्राद् इव चन्द्रमाः
छत्त्रचामरपाणिस् तु लक्ष्मणो राघवानुजः ।
जुगोप भ्रातरं भ्राता रथम् आस्थाय पृष्ठतः
ततो हलहलाशब्दस् तुमुलः समजायत ।
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः
स राघवस् तत्र कथाप्रलापं शुश्राव लोकस्य समागतस्य ।
आत्माधिकारा विविधाश् च वाचः प्रहृष्टरूपस्य पुरे जनस्य
एष श्रियं गच्छति राघवो ऽद्य राजप्रसादाद् विपुलाङ्गम् इष्यन् ।
एते वयं सर्वसमृद्धकामा येषाम् अयं नो भविता प्रशास्ता ।
लाभो जनस्यास्य यद् एष सर्वं प्रपत्स्यते राष्ट्रम् इदं चिराय ॥ रम्स्_2,14.25* ॥
स घोषवद्भिश् च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः ।
महीयमानः प्रवरैश् च वादकैर् अभिष्टुतो वैश्रवणो यथा ययौ
करेणुमातंगरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम् ।
प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0