भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.13

2.13.1

रामायण, अयोध्याकाण्ड, 13
ते तु तां रजनीम् उष्य ब्राह्मणा वेदपारगाः ।
उपतस्थुर् उपस्थानं सहराजपुरोहिताः

2.13.2

अमात्या बलमुख्याश् च मुख्या ये निगमस्य च ।
राघवस्याभिषेकार्थे प्रीयमाणास् तु संगताः

2.13.3

उदिते विमले सूर्ये पुष्ये चाभ्यागते ऽहनि ।
अभिषेकाय रामस्य द्विजेन्द्रैर् उपकल्पितम्

2.13.4

काञ्चना जलकुम्भाश् च भद्रपीठं स्वलंकृतम् ।
रामश् च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा

2.13.5

गङ्गायमुनयोः पुण्यात् संगमाद् आहृतं जलम् ।
याश् चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च

2.13.6

प्राग्वाहाश् चोर्ध्ववाहाश् च तिर्यग्वाहाः समाहिताः ।
ताभ्यश् चैवाहृतं तोयं समुद्रेभ्यश् च सर्वशः

2.13.8

क्षौद्रं दधिघृतं लाजा दर्भाः सुमनसः पयः ।
सलाजाः क्षीरिभिश् छन्ना घटाः काञ्चनराजताः ।
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ॥ रम्स्_2,13.7* ॥
चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् ।
सज्जं तिष्ठति रामस्य वालव्यजनम् उत्तमम्

2.13.9

चन्द्रमण्डलसंकाशम् आतपत्रं च पाण्डुरम् ।
सज्जं द्युतिकरं श्रीमद् अभिषेकपुरस्कृतम्

2.13.10

पाण्डुरश् च वृषः सज्जः पाण्डुराश्वश् च सुस्थितः ।
प्रस्रुतश् च गजः श्रीमान् औपवाह्यः प्रतीक्षते

2.13.11

अष्टौ कन्याश् च मङ्गल्याः सर्वाभरणभूषिताः ।
वादित्राणि च सर्वाणि बन्दिनश् च तथापरे

2.13.12

इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ।
तथा जातीयम् आदाय राजपुत्राभिषेचनम्

2.13.13

ते राजवचनात् तत्र समवेता महीपतिम् ।
अपश्यन्तो ऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्

2.13.14

न पश्यामश् च राजानम् उदितश् च दिवाकरः ।
यौवराज्याभिषेकश् च सज्जो रामस्य धीमतः

2.13.15

इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ।
अब्रवीत् तान् इदं सर्वान् सुमन्त्रो राजसत्कृतः

2.13.16

अयं पृच्छामि वचनात् सुखम् आयुष्मताम् अहम् ।
राज्ञः संप्रतिबुद्धस्य यच् चागमनकारणम्

2.13.17

इत्य् उक्त्वान्तःपुरद्वारम् आजगाम पुराणवित् ।
आशिर्भिर् गुणयुक्ताभिर् अभितुष्टाव राघवम्

2.13.18

गता भगवती रात्रिरहः शिवम् उपस्थितम् ।
बुध्यस्व नृपशार्दूल कुरु कार्यम् अनन्तरम्

2.13.19

ब्राह्मणा बलमुख्याश् च नैगमाश् चागता नृप ।
दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव

2.13.20

स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ।
प्रतिबुध्य ततो राजा इदं वचनम् अब्रवीत्

2.13.21

न चैव संप्रसुप्तो ऽहम् आनयेद् आशु राघवम् ।
इति राजा दशरथः सूतं तत्रान्वशात् पुनः

2.13.22

स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ।
निर्जगाम नृपावासान् मन्यमानः प्रियं महत्

2.13.23

प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ।
स सूतस् तत्र शुश्राव रामाधिकरणाः कथाः

2.13.24

ततो ददर्श रुचिरं कैलाससदृशप्रभम् ।
रामवेश्म सुमन्त्रस् तु शक्रवेश्मसमप्रभम्

2.13.25

महाकपाटपिहितं वितर्दिशतशोभितम् ।
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्

2.13.26

शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ।
दामभिर् वरमाल्यानां सुमहद्भिर् अलंकृतम्

2.13.27

स वाजियुक्तेन रथेन सारथिर् नराकुलं राजकुलं विलोकयन् ।
ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः

2.13.28

तद् अद्रिकूटाचलमेघसंनिभं महाविमानोत्तमवेश्मसंघवत् ।
अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc