रामायण (दक्षिणी पाठ) · अध्याय 2.12
रामायण, अयोध्याकाण्ड, 12
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि ।
विवेष्टमानम् उदीक्ष्य सैक्ष्वाकम् इदम् अब्रवीत्
पापं कृत्वेव किम् इदं मम संश्रुत्य संश्रवम् ।
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वम् अर्हसि
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः ।
सत्यम् आश्रित्य हि मया त्वं च धर्मं प्रचोदितः
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः ।
प्रदाय पक्षिणो राजञ् जगाम गतिम् उत्तमाम्
तथा ह्य् अलर्कस् तेजस्वी ब्राह्मणे वेदपारगे ।
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ
सरितां तु पतिः स्वल्पां मर्यादां सत्यम् अन्वितः ।
सत्यानुरोधात् समये वेलां स्वां नातिवर्तते
समयं च ममार्येमं यदि त्वं न करिष्यसि ।
अग्रतस् ते परित्यक्ता परित्यक्ष्यामि जीवितम्
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।
नाशकत् पाशम् उन्मोक्तुं बलिर् इन्द्रकृतं यथा
उद्भ्रान्तहृदयश् चापि विवर्णवदनो ऽभवत् ।
स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा
विह्वलाभ्यां च नेत्राभ्याम् अपश्यन्न् इव भूमिपः ।
कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीम् इदम् अब्रवीत्
यस् ते मन्त्रकृतः पाणिर् अग्नौ पापे मया धृतः ।
तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया
ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता
किम् इदं भाषसे राजन् वाक्यं गररुजोपमम् ।
आनाययितुम् अक्लिष्टं पुत्रं रामम् इहार्हसि
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।
निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि
स नुन्न इव तीक्ष्णेण प्रतोदेन हयोत्तमः ।
राजा प्रचोदितो ऽभीक्ष्णं कैकेयीम् इदम् अब्रवीत्
धर्मबन्धेन बद्धो ऽस्मि नष्टा च मम चेतना ।
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुम् इच्छामि धार्मिकम्
इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् ।
स्वयम् एवाब्रवीत् सूतं गच्छ त्वं रामम् आनय
ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ।
शोकारक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।
प्रगृहीताञ्जलिः किंचित् तस्माद् देशाद् अपाक्रमन्
यदा वक्तुं स्वयं दैन्यान् न शशाक महीपतिः ।
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह
सुमन्त्र रामं द्रक्ष्यामि शीघ्रम् आनय सुन्दरम् ।
स मन्यमानः कल्याणं हृदयेन ननन्द च
सुमन्त्रश् चिन्तयामास त्वरितं चोदितस् तया ।
व्यक्तं रामो ऽभिषेकार्थम् इहायास्यति धर्मवित्
इति सूतो मतिं कृत्वा हर्षेण महता पुनः ।
निर्जगाम महातेजा राघवस्य दिदृक्षया
ततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतान् विलोकयन् ।
ददर्श पौरान् विविधान् महाधनान् उपस्थितान् द्वारम् उपेत्य विष्ठितान्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0